Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 358
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyarmandie %* ... % 5 A रवृत्तेश्च नानैकान्तिकः, न चैषां कुत उच्छेद इति वाच्यं ? प्रसंख्यातभुवस्तत्त्वसाक्षात्कारात् मिथ्याज्ञानायुच्छेदक्रमेण तत्सिद्धे, "दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्ग:" इत्यक्षपादमुनिवचनात् , अत्र च प्रवृत्तिशब्देन धाधर्म्यप्रवृत्तिकार्यों धर्माधर्मावुच्येते, बुद्ध्यादीनामपायो नात्रोक्त इतिचेत् न, जन्मपदेन तेषामभिधानात् , आत्मनः शरीरेन्द्रियबुद्धिवेदनाभिसम्बन्धस्यैव जन्मत्वात् , न चैषामुच्छेदे तदभिन्नस्याऽऽत्मनोऽपि उच्छेद इति वक्तव्यं, गुणगुणिनो भेदाभ्यु-131 पगमात् , ननु एवं मुक्तावात्मनश्चैतन्यसुखाद्यत्यन्तोच्छेदात् , पाषाणादविशेषेण न तदर्थ प्रयतिष्यन्ते प्रेक्षावन्तस्तस्मानित्यचैतन्यानन्दरूपजीवस्वभाव एव मोक्षः, तथा च श्रुतिः "विज्ञानमानन्दं ब्रह्म" आनन्दब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते, इतिचेन्न, प्रमाणाभावात् , न तावदसदादीन्द्रियजन्येन प्रत्यक्षेण भवदभिमतचैतन्यानन्दरूपता जीवस्यावसातुं शक्यते, तस्य मानसस्यापि इन्द्रियकचैतन्यवैषयिकसुखयोरेव अवसायकत्वेन तदगोचरत्वात् , गोचरत्वे वाऽनित्यत्वात् संसारावस्थायामपि सा संवेद्येत, तथाचेन्द्रियजयोरनिन्द्रियजयोश्च तयोर्युगपदुपलम्भप्रसङ्गः, शरीरादिना प्रतिबन्धादनिन्द्रियजयोस्तयोः संसारिणोऽननुभव इतिचेन्न, शरीराद्यवच्छेदेन तदाविर्भावदर्शनात् उपकारकतया तस्स तत्प्रतिबन्धकत्वासिद्धेः, भोक्तु गायतनं शरीरमिति तल्लक्षणात्, ननु अनुमानान्नित्यसुखसिद्धिर्भविष्यति, तथाहि-मुक्क्यर्थिनां प्रवृत्तिर्हि तत्प्राप्त्यर्था प्रेक्षावत्प्रवृत्तित्वात् स्वर्गार्थिप्रवृत्तिवत्, न च तेषां नित्यसुखं विनान्यद्धितमस्ति यदर्थ प्रवर्तेरन् , एवं च सुखस्य चैतन्याविनाभावित्वात् , नित्यचैतन्यस्यापि सिद्धिरिति चेन्न, अहितपरिहारार्थाया अपि तस्या दर्शनात् , दृश्यन्ते हि भूयांसो दंशादिभयाद् अहि सिंहादीनपि परिहृत्य दूरतः पलायमानाः, तथा च प्रेक्षावत्प्रवृत्तित्वस्य हेतोर्व्याप्यत्वासिद्धया नित्यसुखासाध 50-%25 ACACARG For Private and Personal Use Only

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389