Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 356
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsur Gyanmandir KACHAR र्थः ॥ ९६ ॥ ननु अस्तु निर्मिमित्त एव संसारः को विरोधोऽन्यथानादिमुक्तत्वेनाभ्युपेतस्यापि ईश्वरस्य नैयायिकैः कार्यविशेषण शरीरादिपरिग्रहाभ्युपगमो विरुध्येत, इत्यत आह निययावही न हुन्जा संसारो अहेतुओ सया होउ ॥ मुक्खो कम्माभावो सासयजीवस्सभावो उ॥ ९७॥ ___ व्याख्या-'नियतावधिः' इयच्चिरतया परिच्छिन्नसीमः न भवेत् , 'न स्यात्' 'संसार' प्रेत्यभावापरनामा, अहेतुकः कर्म-| सम्बन्धलक्षणकारणविकलः, यदिहि निर्हेतुकोऽपि संसारस्तस्येष्यते, तदा यावत् स्वपक्षरक्षणकालमेव तेनेह स्पेयमथ मोक्ष्यते है इति कुतस्त्योऽयं नियमः, अहेतुकानामात्माकाशादीनां सत्त्वावधेः, केनापि अनुपलंभात् , अथाहेतुकोऽपि अस्य संसारः सावधिरेवोपगम्यते तत्राह 'सदा' यावत्कालं 'भवतु' जायताम् अहेतुकत्वाविशेषेऽपि तेनावधिमता भाव्यं, न तु आकाशादिवत् शश्वदिति विनिगमनायां प्रमाणाभावात् , किं च तदानीं तस्य संसाराहेतुकत्वस्वीकारे प्रागपि तथा प्रसङ्गोऽविशेषात् , कृष्णस्य | देहाभ्युपगमवच्च ईश्वरस्यापि देहपरिग्रहाभ्युपगमो नैयायिकानामिति तत्प्रतिवन्दिरपि न युज्यते, एवं चामिबपि पक्षे बन्धाभा बेन मुक्तस्य पुनरावृत्तिर्दुघटेति व्यवस्थितं, तदेवं सप्रपञ्च बन्धत्वमभिधाय संप्रति क्रमप्राप्तं मोक्षतत्त्वखरूपं गाथोत्तरार्धेनोपन्य| स्यन्नाह'मोक्खों' इत्यादि मोक्ष इति लक्ष्यपदं, तुः पुनरर्थो गाथान्तवर्ती इह योज्यः, तेन मोक्षस्तु मोक्षः पुनः क इत्यत आह'काभावः कर्मणां ज्ञानावरणादीनां बन्धनसमाम्नातानां सर्वेषामपि अभावोऽपगमः जीवस्य तेभ्य ऐकान्तिकात्यन्तिको वियोग इति | यावत् , 'बन्धविप्रयोगो मोक्ष इति परममुनिवचनात् , 'शाश्वतस्य द्रव्यात्मकतया नित्यस्य जीवस्यात्मनः खभावः निजरूपं, नित्यचैतन्यानन्दता हि जीवस्य स्वभावः स च तस्य प्रदीपस्य इव प्रकाशस्वभावस्यापवरकादिव्यवधानात् प्रकाश इव कर्मा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389