________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsur Gyanmandir
KACHAR
र्थः ॥ ९६ ॥ ननु अस्तु निर्मिमित्त एव संसारः को विरोधोऽन्यथानादिमुक्तत्वेनाभ्युपेतस्यापि ईश्वरस्य नैयायिकैः कार्यविशेषण शरीरादिपरिग्रहाभ्युपगमो विरुध्येत, इत्यत आह
निययावही न हुन्जा संसारो अहेतुओ सया होउ ॥ मुक्खो कम्माभावो सासयजीवस्सभावो उ॥ ९७॥ ___ व्याख्या-'नियतावधिः' इयच्चिरतया परिच्छिन्नसीमः न भवेत् , 'न स्यात्' 'संसार' प्रेत्यभावापरनामा, अहेतुकः कर्म-|
सम्बन्धलक्षणकारणविकलः, यदिहि निर्हेतुकोऽपि संसारस्तस्येष्यते, तदा यावत् स्वपक्षरक्षणकालमेव तेनेह स्पेयमथ मोक्ष्यते है इति कुतस्त्योऽयं नियमः, अहेतुकानामात्माकाशादीनां सत्त्वावधेः, केनापि अनुपलंभात् , अथाहेतुकोऽपि अस्य संसारः सावधिरेवोपगम्यते तत्राह 'सदा' यावत्कालं 'भवतु' जायताम् अहेतुकत्वाविशेषेऽपि तेनावधिमता भाव्यं, न तु आकाशादिवत्
शश्वदिति विनिगमनायां प्रमाणाभावात् , किं च तदानीं तस्य संसाराहेतुकत्वस्वीकारे प्रागपि तथा प्रसङ्गोऽविशेषात् , कृष्णस्य | देहाभ्युपगमवच्च ईश्वरस्यापि देहपरिग्रहाभ्युपगमो नैयायिकानामिति तत्प्रतिवन्दिरपि न युज्यते, एवं चामिबपि पक्षे बन्धाभा
बेन मुक्तस्य पुनरावृत्तिर्दुघटेति व्यवस्थितं, तदेवं सप्रपञ्च बन्धत्वमभिधाय संप्रति क्रमप्राप्तं मोक्षतत्त्वखरूपं गाथोत्तरार्धेनोपन्य| स्यन्नाह'मोक्खों' इत्यादि मोक्ष इति लक्ष्यपदं, तुः पुनरर्थो गाथान्तवर्ती इह योज्यः, तेन मोक्षस्तु मोक्षः पुनः क इत्यत आह'काभावः कर्मणां ज्ञानावरणादीनां बन्धनसमाम्नातानां सर्वेषामपि अभावोऽपगमः जीवस्य तेभ्य ऐकान्तिकात्यन्तिको वियोग इति | यावत् , 'बन्धविप्रयोगो मोक्ष इति परममुनिवचनात् , 'शाश्वतस्य द्रव्यात्मकतया नित्यस्य जीवस्यात्मनः खभावः निजरूपं, नित्यचैतन्यानन्दता हि जीवस्य स्वभावः स च तस्य प्रदीपस्य इव प्रकाशस्वभावस्यापवरकादिव्यवधानात् प्रकाश इव कर्मा
For Private and Personal Use Only