________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहबृत्तिः
॥१७२॥
४ वरणात् सन्नपि नाविर्भवति, तदपगमात्तु प्रादुरस्तीति जीवस्वभावाविर्भावकखादुपचारेण मोक्षोऽपि तथोच्यते, अथवा कर्मधार-
यसमासाश्रयणात् शाश्वत एष जीवस्खभावस्तदवाप्यनन्तरं जीवस्य कदाचिदपि नित्यचैतन्यानन्दरूपताया अप्रच्युते, स च सम्बरनिरयोः फलमत एव तदनन्तरं प्रतियोगिनिरूपणाधीननिरूपणतया प्रतियोगिनं बन्धमन्तरा कृखा अस्योपन्यासः कृत इति मुमुक्षुणा चासौ नियमेन ज्ञातव्यो भवति, नित्यानन्दरूपतया चतुर्वर्गमूर्धाभिषिक्तखात् इतरथा तदुपायतयाऽध्यवसितयोः दुःशंक्ययोरपि सम्बरनिर्जरयोर्मुमुक्षुप्रवृत्तेरानर्थक्यापत्तेः, नहि अविज्ञातचिन्तामणिखरूपो भूयसा मूल्येन तमुपादातुं प्रेक्षावान् प्रयतते, न चासौ अमदादिभिः प्रत्यक्षेणावसातुं शक्यते, असदादिज्ञानस्यैन्द्रियकलात् तस्य चातीन्द्रियत्वात् , अतोऽनुमानादसौ ज्ञातव्यः, तथाहि रागादिकर्मसंचयः कदाचित्कस्यचिदत्यन्तं विलीयते प्रतिपक्षभावनाप्रकर्षतारतम्येन जायमानापकर्षतारतम्यत्वात् यो यस्य प्रकर्षतारतम्येन जायमानापकर्षतारतम्यः स तस्य प्रकर्षकाष्टायामत्यन्तं विलीयते यथा प्रावृषेण्यजलधरधारासारप्रकर्षतारतम्येन जायमानापकर्षतारतम्यो, निदाघातपाभितप्ताया भूमेरूष्मा तथा चायं तस्मात् तथा, इत्यनुमानादमदादीनां कर्मात्यन्ताभावलक्षणमोक्षसिद्धिः,सर्वज्ञानां तु केवलप्रत्यक्षादिति,सूत्रे च कर्माभावपदेनानादिनिष्कर्मतया परिष्टस्या नादिमुक्तस्य निरासः, बद्धानामेव कर्मणामत्यन्ताभावस्य मोक्षपदाभिधेयतया प्रतिपादनात् शाश्वतजीवस्वभावपदेन तु बुद्ध्यादिविशेषगुणात्यन्तोच्छेदविशिष्टमात्मस्वरूपं मोक्षं ये प्रतिपद्यन्ते तन्मतव्युदासः, तथाहि तेषां तद्विषयः प्रमाणोपन्यासः-आत्मनो बुद्धधादिगुणाः कदाचिदत्यन्तमुच्छिद्यन्ते संतानरूपत्वेन जायमानत्वात् ,प्रदीपवत , न चायमसिद्धः,निरन्तरं परम्परारूपतयाऽमीपां| जन्मनः सर्वानुभवसिद्धेः, नापि विरुद्धः साध्यविपर्ययेण व्याप्तेरसिद्धः नित्यतयाऽत्यन्तानुच्छिद्यमाने गगनादौ विपक्षेऽपि हेतो
१७२॥
For Private and Personal Use Only