________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
445
| बृहद्वृत्तिः R५लि
॥१६५॥
न द्वितीयः, असदुत्पादाभ्युपगमेनापसिद्धान्तप्रसङ्गात् , सतश्चाविर्भावस्थाविर्भावान्तरकल्पनायामनवस्थानात्, ननु असदुत्पाद पक्षेपि अयं समानो दोषः, तथाहि असत उत्पादः किं सन्नसन् वा, संश्चेत् कारणवैयर्थ्यापातः, अथासन् तर्हि तस्यापि उत्पादान्तरं वक्तव्यं, तथा चानवस्था, किं चामिन् पक्षे व्योमारविन्दादेरपि उत्पादापत्तिः, इतिचेन्न, अभिप्रायानवबोधात , द्वेधाहि असदभिधीयते, निःस्वभावं सखभावं च, तत्र निःस्वभावस्य शशविषाणादेनॊत्पादो विनाशो वा,तथाले निःखभावखव्याघातात्, सस्वभावं च कारणव्यापारात् प्राग घटादिकं, तद्धि मृदादिद्रव्यरूपतया सर्वदा सदेव कम्बुग्रीवादिमत्त्वपर्यायरूपतया तु असत्, | तस्य चासतः पर्यायस्य कारणव्यापारानन्तरमुत्पादः, नचैवमत्रापि सदसद्विकल्पाभ्यामसदुत्पादाद्यनुपपत्तितिरिवाच्यं, नहि नैयायिकैरिवास्माभिः सर्वथा प्रागसतः कार्यस्य प्रादुर्भाव उत्पाद इष्यते, येनैतद्विकल्पावकाशो भवेत् , किं तर्हि कारणस्यैव मृत्पिण्डादेस्तादृशसामग्रीमध्यासीनस्य घटादिरूपपर्यायतया परिणामः, कारणान्येव हि तत्तत्सामग्रीसाद्गुण्यात् कार्याभवन्ति, इति भगवत्सिद्धान्तात् , नच कारणस्य कार्याभावे खात्मनि क्रियाविरोधेन कार्यकारणभावानुपपत्तिस्तस्य भेदाधिष्ठानखादितिवक्तव्यं,द्रव्यपर्याययोः कारणकार्यखरूपयोः सर्वथाऽभेदानङ्गीकारात् ,तथाखे द्रव्यमित्येव पर्याय इत्येव वा प्रतीतिः स्यात् ,एवमस्तु इतिचेन्न,उभयव्यवहारस्य सर्वानुभवसिद्धेः,अनन्यथासिद्धकारणान्वयव्यतिरेकानुविधायिखस्य कार्यान्नियतप्राक्कालभावित्रस्य च यथाक्रम कार्यकारणभावलक्षणस्य मृपिण्डघटादिषु द्रव्यपव्यरूपेषूपपत्तेश्च, यथैकसादेव मृत्पिण्डात् सुवर्णगोलकाद्वा तत्त
सहकारिसाहित्येन घटशरावोदश्चनादयो मुकुटकटकादयो वा नानाविधा विशेषाः प्रादुर्भवन्ति तिरोभवन्ति च, न तथा कूर्म| देहात् सामग्रीभेदेनापि चरणग्रीवादीन्यङ्गानि प्रादुर्भावतिरोभावाभ्यामन्यथा भावं भजन्ति उपलभ्यन्ते, किन्तु तान्येव तानि
KACAAAAAAAAC
CRICK
॥१६५॥
For Private and Personal Use Only