________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथैव प्रत्यभिज्ञानात्, यथा च घटमुकुटादिषु मृद्वेमविकारेषु आविर्भाव तिरोभावाभ्यामुत्पादविनाशव्यवहारः सर्वप्रतीतिगोचरो, न तथा कूर्माङ्गेषु तथा भावेऽपि कस्यचित्तद्व्यवहारप्रवृत्तिः, तथाले वा जन्ममरणावस्थयोरिव तस्याङ्गविकारसंकोचावस्थयोरपि तद्व्यवहारप्रसङ्गः तस्मादसमः कूर्मदृष्टान्तोऽपि यदपि समन्वयादिहेतुभिरव्यक्तसाधनं तदपि न शोभनम् उक्तन्या येन बुद्ध्यादीनामसच्चसाधनेन समन्वितत्वादिति हेतोराश्रयासिद्धेः, आस्तां वा कथंचित् तत्सिद्धिः, तथाप्यनैकान्तिकखं सुखदुःखमोहसमन्वितत्वेऽपि पुरुषस्याव्यक्तहेतुकत्वाभावेन हेतोर्विपक्षवृत्तित्वात् सुखादिसमन्वयस्तस्यासिद्ध इतिचेन्न, प्रत्यक्षेणैव तत्सिद्धेः, तथाहि जीवन्मुक्तावस्थायामेष दर्शनमात्रेण भव्यानां सुखमभव्यानां दुःखं धिगस्मान् यद्योगकीलितसकलेन्द्रियवृत्तयोऽपि तपविनोऽपि वयं नाद्यापि ईदृशीं वीतरागदशां लभेमहीति केषांचिन्मोहं जनयतीति, अथ तत्र पुरुषकैवल्यावस्थादौ द्रष्टृणामेव संकल्पव्यापारात् मनसः सुखाद्युत्पादो न पुरुषादितिचेत्तर्हि तादृक्शब्दरूपाद्युपलम्भेऽपि श्रोतृप्रभृतीनां मनः संकल्पादेव सुखाद्युत्पत्तिर्नतु शब्दादीनां तदनन्वयादित्यपि स्यात्, अपि च शब्दादीनां तदन्वितखाभ्युपगमे सर्वेषां सर्वदा युगपदेव सुखादित्रयोत्पादप्रसङ्गः नतु कस्यचित्क्रमेण वेति, नहि मेचकमणिः कंचिदपि प्रत्येकादिवर्णतया प्रतिभासमुत्पादयति, सर्वानपि प्रति तस्य पञ्चवर्णतयैव प्रतिभासोत्पादनात् एवमपि शब्दादीनां त्रैगुण्यात्मकत्वोपगमे तद्विषयज्ञानस्यापि विपर्य्ययतापत्तेः, त्रिगुणस्य सतः पदार्थस्य सुखाद्येकैकरूपेण ग्रहणात् तस्मात् शब्दादिवन्न त्रयात्मकखं बुद्ध्यादीनामपि तथा च स्वरूपासिद्धोऽपि अयं हेतुः, एवमपि तत्स्वीकारे तु पुरुषेऽपि तदस्तीत्यनैकान्तिक एव साध्यविकलच दृष्टान्तः, घटकटकादीनां मृद्वेमादिरूपसमन्वितत्वेऽपि कार्यात्कथंचित्कारणस्य भेदेन मृदादिरूपव्यक्तहेतुकत्वात् तस्मान्न समन्वितत्राद् हेतोः प्रधामाख्याव्यक्तसिद्धिः, तद
For Private and Personal Use Only