________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्थायां तन्तुभिर्न तस्योत्कर्षाधानं, तदास्कन्दितस्यैव तस्य पटव्यपदेशभावात् तथा कारणेऽपि सर्वात्मना तत्सत्त्वाभ्युपगमे तन्त्र स्वादविशेषात् , न द्वितीयः, तस्या इन्द्रियार्थसन्निकर्षजन्यखात् , पटावस्थामप्राप्तस्य च तस्येन्द्रियसन्निकर्षाभावात् , भावे वा पटावस्थायामिव विशकलिततन्खवस्थायामपि तत्सन्निकर्षात् पटप्रतीतिप्रसङ्गात् , तसात् तन्तुभ्योऽतिरिक्तं पटावस्थाऽवासौ हेवन्तरं वाच्यं तेषां पटप्रतीतावेव सामर्थ्यात्, न तृतीयः, आवरणं हि पटस्य तन्तव एव भवेत् , अन्यद्वा किंचिद् , नायः, एकस्यैवावरणखतदपनायकखानुपपत्तेः, नहि पटलं नेत्रस्यावरणं च तदपनायकं चेति संगच्छते, नच तन्तूनामावरणसमपि संभ- वति, रण्डाकरण्डावस्थितानां तेषामितस्ततः करादिभिर्विकरणेऽपि तदन्तरा पटानुपलब्धेः, नापरः, तदभावात् , नहि तैलस्य तिलानिव तण्डुलानां तुषानिव वा पटस्य किंचिदावरणमुपलभेमहि येन तन्तुभिस्तदपसारणे तैलादिवत् पटपृथगुपलभ्येत, एतेन तैलदृष्टान्तोऽपि निरस्तः, तिलतुषादीनां द्यावारकत्वं पार्थक्यं च सर्वानुभवसिद्धं तेन तदपसारणे युक्ता तैलादीनामभिव्यक्तिः, नतु इह तन्खादीनामावारकख कस्यापि सिद्धं येन तदपगमे पटाभिव्यक्तिः स्यात् , तदपसरणे हि पट एव न प्रादुर्भ-12 |वेत् , तथा च कस्तन्तुभिरभिव्यज्येत, किंच कारणानामभिव्यञ्जकलमङ्गीकारे यथा प्रदीपः कदाचित्तदर्थमव्यापार्यमाणोऽपि वप्र|भापटलान्तःपातिनो घटादीनभिव्यनक्ति, तथा तन्तुतुरिकुविन्दादयोऽव्याप्रियमाणा अपि समवधानमात्रेण पटमभिव्यंज्युः, नचैवमस्ति तसादभिव्यञ्जकस्य प्रदीपादेः सत्प्रकाशन इव कारणस्य तन्वादेरसत्करणे व्यापारः स्वीकार्यः, यदपि कार्यकाररणयोरैकात्म्यस्वीकारे परेण खात्मनि वृत्तिविरोधापादने कूर्मदृष्टान्तेन तत्तद्विशेषाविर्भावतिरोभावाभ्यामविरोधप्रतिपादनं, तदप्ययुक्तम् , आविर्भावोहि विशेषस्य पटादेः कारणव्यापारात् प्राक् सनसन् वा, न प्रथमः, कारणानां वैफल्यापातात् ,
For Private and Personal Use Only