SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ॥१६४॥ ACACACCE विकारतया तस्या धर्मत्वमिति वाच्यं, क्षीरविकारत्वेन दनोऽपि तद्धमत्वप्रसङ्गात् , इष्यत एवेदमितिचेन्न, गन्धरसवीर्यादिभेदेन क्षीरवत्तस्यापि पृथग धर्मितया सर्ववादिसिद्धेः, तस्मात् परिणामरूपोऽपि कार्यकारणभावो न संगतिमश्नुते, यदपि सुखदुःखमोहात्मकतया प्रकृति साधर्म्यण कथंचिद्भेदापादनं तदपि न संगतं, सर्वथा तादात्म्ये वैधयानुपपत्त्या भेदविरोधात्, बुद्ध्यादीनां तदात्मकत्वं तदपि न, तद्धि किमेषां सर्वदा सर्वत्र सर्वान् प्रति, आहो कदाचित् कचित्कांश्चिदेव प्रति, नाद्यः, तदादि देशकालनरावस्थाप्रतिनियमेन तेषां सुखाद्युत्पादकत्वं न स्यात् , दृश्यते च तदेव स्रक्चन्दनादिकमेकस्यैव पुंसो देशादिवि|भागेन जनयत् सुखादिकं, त एव च शब्दादयस्तदैव कस्यचित् सुखहेतवः कस्यचित् दुःखहेतव उपलभ्यन्ते सोऽयं विभागो न भवेत् , न द्वितीयः, सुखाद्यात्मकत्वविलोपप्रसङ्गात् , नहि नीलं नीलात्मतयाऽनीलव्यावृत्तं कंचित् प्रति नीलं कंचित् प्रति अन्यथेति, यदपि हेतुमत्वादिना वैधर्येण कथंचिद्भेदापादनं तदपि न संगतं, सर्वथा तादात्म्ये वैधानुपपत्या, भेदविरोधात् , एवमपि अविरोधे सच्चादिगुणभेदेन प्रकृतेरपि भेदापातात् , यदपि, असदकरणादित्यादिना * कार्यस्य कारणे सत्त्वात् तयोरैकात्म्यसमर्थनं, तदप्ययुक्तं सत्करणेऽपि अस्य दोषस्य समानत्वात् , यदि हि कारणव्यापारात्पा-3 गपि सदेव कार्य तदा तत्कारणत्वमेव जह्यात्, कार्यान्नियमेन प्राक्कालसम्बन्धि हि कारणं, यदनन्तरं च नियमेन यद् भवति तत्तस्य कार्य, नच सह भवतोरेव तयोस्तल्लक्षणोपपत्तिः, तथात्वे वा सह भावुकं सर्व सर्वस कार्य कारणं वा स्यात्, तथा चा- व्यवस्थया निरीहं जगजायेत, यदपि कारणैः कार्यस्याभिव्यक्तिकरणेन तेषां साफल्याविर्भावनं तदपि न चारु, अभिव्यक्तिर्हि कार्यस्योत्कर्षाधानं वा स्यात् , प्रतीतिर्वा, आवरणापनयनं वा, नायः, सत एव कार्यस्य तदसंभवात् , यथाहि पटाव ॥१६॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy