________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नैकान्तानित्यत्वम् , एवं च कारणासचे कार्याभावस्य सुलभत्वेन बुद्धरसिद्धौ तन्मूलोऽहंकारादिसर्गोऽपि प्राप्तोपसर्गों नावस्थातुमर्हति, बुद्धिज्ञानोपलब्धिशब्दानां च सर्वपार्षदं चैतन्यपव्यत्वमित्थमेव संगच्छत इतिस्थितं, यदप्युक्तं प्रकृतेः कार्यभेदाबुद्ध्यादय इति, तत्र किमेते प्रकृतेर्व्यतिरिक्ता अव्यतिक्ता वा, नाद्यः, कार्यस्य कारणात्मकत्वाभ्युपगमेन तदनुपपत्तेः, न द्वितीयः, कार्यकारणभावस्य भेदाधिष्ठानत्वात् , प्रकृतिः कारणं बुद्धिः कार्यमित्यादिव्यवहारस्य भेद एवोपपत्तेः, सर्वथाऽभेदेहि तयोबुद्धिकारणं प्रकृतिः कार्यमिति वैपरीत्यमपि आपद्येत अविशेषात् , अथ पूर्वपदार्थात् सहकारिसाहित्येन अपूर्वपदार्थान्तरोत्पादः कार्यकारणभावो नासाकमभिमतो येनैवं विरोधो नोयेत, किं तर्हि प्रधानस्य बुद्ध्यादिरूपेण परिणामः, स चाभेदेऽपि संगच्छते, एकस्यैव वस्तुनो रूपान्तरेण प्रादुर्भावादितिचेत्, अथ कोऽयं परिणामः, किं धर्मिण एव धर्मान्तररूपेण प्रादुर्भावः, धातुवादिप्रसिद्धेनौषधीपारदादियोगेन ताम्रादेः सुवर्णादिरूपतयेव, अथावस्थितस्यैव धर्मिणः प्राच्यधर्मव्यावृत्तौ कुकलासस्य पूर्ववर्णव्यावृत्तौ वर्णान्तरस्येव धर्मान्तरस्य प्रादुर्भावः, न प्रथमः, तदाहि प्रधानस्य बुद्धिरूपेण परिणाम इत्यर्थः स्यात् , ततश्च किं | तस्यैकदेशेनासौ भवेत्, कार्नेन वा, नाद्यः, तस्य निरवयवत्वाङ्गीकारेण तदभावात् , भावे वा तसादेवैकदेशात् बुद्धिप्रादुर्भा-18 वेनाऽवयवान्तराणामपरिणामितया वैयापातात् , अपसिद्धान्तप्रसङ्गाच नापरः, बुद्धिरूपतया सर्वथा भावेन प्रधानस्याभावापत्तेः, न द्वितीयः, प्रधानस्य प्राच्यधर्माभावेन तव्यावृत्या बुद्ध्याख्यस धर्मान्तरस्य प्रादुर्भावानुपपत्तेः, सत्त्वादिप्राच्यधर्मनिवृत्तौ तु बुद्धिरूपधर्मान्तरोत्पादाभ्युपगमे बुद्धस्तद्विरहापत्तेः, प्रकृतेरपि सत्वादिविरहेऽसत्त्वापाताच, नच सत्त्वादीनां धर्मत्वं गुणत्वेनैव तेषां भवताऽभ्युपगमात्, न च बुद्धेरपि धर्मत्वं सिद्धं, ज्ञानाधिकरणतया तस्सा धर्मित्वस्वीकारात्, न च प्रकृति
For Private and Personal Use Only