Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 349
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः पंचलिंगी ॥१६॥ CASCAR मपि प्रधानं न प्रवर्तेत, कैवल्यस्याऽन्यथानुपपत्तेः, यदपि क्षीरोदाहरणेन प्रधानप्रवृत्तेः समर्थनं तदपि न सुन्दरं, नहि क्षीरं धार- यन्त्या न तदर्थमपि तत्प्रवृत्तिः, तस्मात् तत्र गौरव प्रवर्त्तते न क्षीरं प्रवर्तत इति व्यपदेशः, इहतु प्रधानमचेतनखात् पुरुषाशयानवगमात् कथं तन्मुक्तये प्रवर्तेत, प्रवृत्तौ वा प्रकृतपुरुषत्यागेनाऽन्यमुक्तयेऽपि कदाचित्प्रयतेत अचेतनप्रवृत्तेरन्धप्रवृत्तिसमान-| योगक्षेमखात् , चेतनोपरागकृतस्य तु तत्र चैतन्यप्रतिभासस्य प्रागेव निषेधात् , किं च पुरुषमोक्षार्थमस्य प्रवृत्तिरित्येतदपि न संगच्छते, पुरुषस्य मुक्तेरेव अघटमानात् , मुचेर्वन्धनवियोजनार्थखात् पुरुषस्य च कूटस्थतयाऽपरिणामिखात् तादृशे च तसिन् | सवासनक्लेशलक्षणस्य बन्धनस्य तद्वियोजनलक्षणस्य च मोक्षस्यासंभवात्, बन्धाभावे चा जवंजवीभावापरनाम्नः संसारस्यापि अनुपपत्तेः, अथ प्रधानस्यैव संसारचन्धमोक्षास्तत्सन्निधानादेव च भृत्यगतानां जयपराजयादीनां स्वामिनीव तद्गतानां तेषां है पुरुषे उपचारः, तत्कस्य हेतोः खामिसंबन्धेन भृत्यानां जयादितजन्यलाभवत् पुरुषसंबन्धेन प्रधानस्य संसारापवर्गलाभात् , तदुक्तम्-"तस्मान्न बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥१॥ कश्चिदिति-पुरुष इत्यर्थः, नानाश्रयेति, अनेकपुरुषाश्रितेति, एवं च संसारापवर्गादीनां प्रधानगतानां पुरुषे विवे-16 काग्रहादौपचारिको व्यवहार इतिचेन्न, प्रकृतिः किमेकदेशेन मुच्यते सामस्त्येन वा, न प्रथमः, निरवयखेन तस्यास्तदनङ्गीकारात्, अङ्गीकारे वा मुक्तदेशे परिणामाभावेन कस्यचित्पुरुषस्य कृते महदादीनुत्पादयेत् , नचैवमस्ति सामस्त्येन सर्वदा सर्वात्मार्थ च महदाद्युत्पादनाङ्गीकारात् , नचैतदपि उपपद्यते, इयता कालेन मनुष्यलोकावच्छेदेन सर्वदेशेष्वपि देहावच्छिन्नानामनन्तात्मनां कैवल्यावाप्त्या तस्या मुक्तिसंभवेनोपराया इव भुवः संसारिपुरुषार्थ महदादिप्ररोहप्रसवसामर्थ्यात्, तथा च ॥१६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389