Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 347
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir M पंचलिंगी बृहद्वृत्तिः ॥१६७॥ ESSASSACROSSA नवा,नचेत् ,कथं तेषां पारार्थ्य,नहि लोकेऽपि यो यं नोपकुरुते तस्य तादर्थ्य नाम,कुर्वन्ति चेत् ,किं पूर्वस्वभावापगमेन तदनपगमेन वा, नायः, तदाहि चेतनस्य परिणामापातात् ,पूर्वस्वभावहाने न खभावान्तरापत्तेरेव परिणामबेनाङ्गीकारात् , तथा च कौटस्थ्यहान्या स्वभावत्यागेन चेतनस्यापि असत्वापत्या कथं संहतस्त्रानुमानात्तत्सिद्धिः स्यात्, न द्वितीयः, उपकारासिद्धेः, नहि पाच्यावस्थातोऽतिशयान्तरापादनं विना भावस्पोपकारो नाम, ननु यथा पङ्गुर्गमनशक्तिवैकल्यादन्धस्कन्धमधिरोदुमपेक्षते, अन्धोऽपि दृग्वैधुर्यादध्वदर्शयितारं पङ्गुम्, एवं च तयोरुपकार्योपकारकभावेन परस्परापेक्ष्याभिमतसिद्धिस्तथा पुरुषस्तदर्थ प्रवर्त्तमानामचेतनामपि स्वसन्निधानाचेतनावतीमिव प्रकृति कैवल्यार्थमपेक्षते, प्रकृतिरपि भोग्यवान्यथानुपपत्च्या भोक्तारं पुरुषं यदाह-पुरुषस्यार्थदर्शनार्थ कैवल्यार्थ तथा प्रधानस्य पंग्वन्धवदुभयोरपि संयोगः, इति अस्यार्थः 'प्रधानस्येति, कर्मणि षष्ठी तेन प्रधानस्य सर्वप्रकारस्य यद् दर्शनं पुरुषेण तदर्थ तदनेन भोग्यता प्रधानस्य दर्शिता, ततश्च भोग्यं प्रधानं भोक्तारमन्तरेण न भवतीति युक्ताऽस्य भोक्तपेक्षा अथ पुरुषस्यापेक्षा दर्शयति-पुरुषस्य कैवल्यार्थ' तथा भोग्येनहि प्रधानेन संभिन्नः पुरुषस्तद्गतं दुःखत्रयं खात्मनि अभिमन्यमानः कैवल्यं प्रार्थयते, तच सत्वपुरुषान्यथाख्यातिनिबन्धनं, नच सत्चपुरुषान्यथाख्यातिः प्रधानमन्त| रेणेति कैवल्यार्थ पुरुषः प्रधानमपेक्षत इति, तथा च पंग्वन्धवत् तयोरपि अन्योन्यापेक्षया संयोगादभीष्टसिद्धिर्भविष्यतीति चेत् , न, युक्ताहि पंग्वन्धयोः परस्परापेक्षया वृत्तिः, उभयोरपि तयोश्चेतनखात् , अन्धस्य दर्शनाभावेऽपि पङ्गुवचनाकर्णनात् तदभिप्रायावबोधेन सम्यग्गमनादिप्रवृत्तिसंभवात् , इह तु प्रकृतेरचैतन्येन पुरुषाभिप्रायानवसायात् तदानुगुण्येन प्रवृत्तेरनुपपत्तेः, चेतनसन्निधानाद् दर्पण इव तत्प्रतिबिम्बसंक्रान्त्या तत्रापि चैतन्यप्रतिभास इतिचेन्न, तत्प्रतिबिम्बमात्रात्तदाशयाविसंवादेन RSARKARGAMARCH ॥१६७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389