________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
M
पंचलिंगी
बृहद्वृत्तिः
॥१६७॥
ESSASSACROSSA
नवा,नचेत् ,कथं तेषां पारार्थ्य,नहि लोकेऽपि यो यं नोपकुरुते तस्य तादर्थ्य नाम,कुर्वन्ति चेत् ,किं पूर्वस्वभावापगमेन तदनपगमेन वा, नायः, तदाहि चेतनस्य परिणामापातात् ,पूर्वस्वभावहाने न खभावान्तरापत्तेरेव परिणामबेनाङ्गीकारात् , तथा च कौटस्थ्यहान्या स्वभावत्यागेन चेतनस्यापि असत्वापत्या कथं संहतस्त्रानुमानात्तत्सिद्धिः स्यात्, न द्वितीयः, उपकारासिद्धेः, नहि पाच्यावस्थातोऽतिशयान्तरापादनं विना भावस्पोपकारो नाम, ननु यथा पङ्गुर्गमनशक्तिवैकल्यादन्धस्कन्धमधिरोदुमपेक्षते, अन्धोऽपि दृग्वैधुर्यादध्वदर्शयितारं पङ्गुम्, एवं च तयोरुपकार्योपकारकभावेन परस्परापेक्ष्याभिमतसिद्धिस्तथा पुरुषस्तदर्थ प्रवर्त्तमानामचेतनामपि स्वसन्निधानाचेतनावतीमिव प्रकृति कैवल्यार्थमपेक्षते, प्रकृतिरपि भोग्यवान्यथानुपपत्च्या भोक्तारं पुरुषं यदाह-पुरुषस्यार्थदर्शनार्थ कैवल्यार्थ तथा प्रधानस्य पंग्वन्धवदुभयोरपि संयोगः, इति अस्यार्थः 'प्रधानस्येति, कर्मणि षष्ठी तेन प्रधानस्य सर्वप्रकारस्य यद् दर्शनं पुरुषेण तदर्थ तदनेन भोग्यता प्रधानस्य दर्शिता, ततश्च भोग्यं प्रधानं भोक्तारमन्तरेण न भवतीति युक्ताऽस्य भोक्तपेक्षा अथ पुरुषस्यापेक्षा दर्शयति-पुरुषस्य कैवल्यार्थ' तथा भोग्येनहि प्रधानेन संभिन्नः पुरुषस्तद्गतं दुःखत्रयं खात्मनि अभिमन्यमानः कैवल्यं प्रार्थयते, तच सत्वपुरुषान्यथाख्यातिनिबन्धनं, नच सत्चपुरुषान्यथाख्यातिः प्रधानमन्त| रेणेति कैवल्यार्थ पुरुषः प्रधानमपेक्षत इति, तथा च पंग्वन्धवत् तयोरपि अन्योन्यापेक्षया संयोगादभीष्टसिद्धिर्भविष्यतीति चेत् , न, युक्ताहि पंग्वन्धयोः परस्परापेक्षया वृत्तिः, उभयोरपि तयोश्चेतनखात् , अन्धस्य दर्शनाभावेऽपि पङ्गुवचनाकर्णनात् तदभिप्रायावबोधेन सम्यग्गमनादिप्रवृत्तिसंभवात् , इह तु प्रकृतेरचैतन्येन पुरुषाभिप्रायानवसायात् तदानुगुण्येन प्रवृत्तेरनुपपत्तेः, चेतनसन्निधानाद् दर्पण इव तत्प्रतिबिम्बसंक्रान्त्या तत्रापि चैतन्यप्रतिभास इतिचेन्न, तत्प्रतिबिम्बमात्रात्तदाशयाविसंवादेन
RSARKARGAMARCH
॥१६७॥
For Private and Personal Use Only