________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मन-
बुह्मादीनां च तद्विपर्ययेण तदभावात्, नहि यावति देशे बुखादयस्तावत्येव प्रधानमपि, प्रधानपुरुषयोर्वा भवदभ्यु-8 पगमेन सर्वगतखेन तद्भावेऽपि परार्थवासिद्धेः, नहि ताभ्यां संभूय कस्यचित् परस्सार्थः संपाद्यते, न द्वितीयः, सा हि तेषां शाश्वतिकी वा स्यात्, कादाचित्की वा, न प्रथमः, तेषां हि परस्परं कार्यकारणस्वभावतया पूर्वापरकालभाविखेन तदसंभवात्, नापरः, शयनाद्यङ्गानां तथाभावेऽपि मुमूर्षुपुरुषशरीराद्यर्थताया अभावात्, तथा च साध्यविकलो दृष्टान्तः, सर्गान्त्यक्षणे वा बुद्ध्यादीनामेककालतायामपि पुरुषार्थखायोगात् अनैकान्तिकख, प्राग्वत् च प्रधानपुरुषयोर्नित्यखेन तत्संभवेऽपि पाराथ्योभावात् , न तृतीयः, प्रधानस्य हि कार्य बुद्धिस्तस्याश्चाहंकार इत्यादिक्रमेण सर्वेषामपि एषां पृथक् पृथक् कार्यकारितया तदसंभवात्, पुरुषार्थलक्षणैककार्यकरणेनैषां तत्संभव इतिचेन्न, इतरेतराश्रयप्रसङ्गात , संभूयकारितया अमीषां समुदायलेन आत्मलक्षणपरसिद्धिः, तत्सिद्धौ च तदर्थलक्षणैककार्यकारितया एषां समुदायखमिति, एतेन चतुर्थोपि प्रत्युक्तः, घुग्रहंकारादीनां पृथक् पृथक् कारणजन्यखेन तदयोगात्, प्रधानस्य च नित्यत्वेन कारणवत्वमात्रस्थापि असिद्धेः, अपि चैककारणतया समुदायत्वेन षोडशकगणस्य एकसादहंकारादुत्पादेनैकार्थक्रियाकारितापातात् , नचैवमस्ति, तन्मात्रेभ्यः पृथिव्यादिभूतानामिन्द्रियेभ्यश्च यथासंभवं रूपाद्यालोचनविकल्पानां वचनादीनां च भवनीयोत्पादश्रवणात्, पुरुषाणां च सर्वगतखनित्यखाभ्यामेकदेशकालतया समुदायवेऽपि उदासीनतयाऽनुपकारकलेन परार्थवासंभवात् , संभवे वा तदुपकार्यतया परस पइविंशतितमतत्त्वस्य स्वीकारापत्तेः, नापि अभिन्नवृत्तिवं संहतत्वं कृत्यध्यवसायाभिमानादिप्रातिखिकव्यापारभेदेन महदादीनां तदसिद्धेः, पारार्थ्यमपि चात्र चेतनार्थत्वं विवक्षितं, ततश्च महदादयस्तस्य किं किश्चिदुपकारं कुर्वन्ति
CRACROO
For Private and Personal Use Only