SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir S SACROSS प्रकृतिप्रवृत्तेरयोगात्, अपरथा आत्मानुषक्तश्मश्रुकचसमारचनादिप्रवृत्तिमच्छरीरप्रतिबिम्बनाद् दर्पणस्यापि प्रवृत्त्यादिप्रसङ्गात् , अचैतन्येनेतरप्रतिबिम्बनेन च प्रधानात् दर्पणस्याविशेषात् प्रधानप्रतिफलनाचेतनस्यापि वाञ्चेतनापत्तेः, परस्परापेक्षसंयोग६ विशेषादुभयोरपि प्रतिबिम्ब्य प्रतिबिम्बविषयमावोपपत्तेः, यदि च प्रतिबिम्बपरिग्रहे भवतामादरस्तदावश्यं चेतने प्रधानस प्रतिविम्बनमभ्युपेयं, नतु प्रधाने चेतनस्य तत्त्वतः खच्छाखच्छवभावतया यथाक्रमं तयोस्तद्योग्यखायोग्यखभावात् स्फटिकान्धोपलादिषु तथा दर्शनात्, तथा च प्रयोगः-प्रकृतिः पुरुषसन्निहितापि न की अचेतनखात्, शिलावदिति, तसानास्याः पुरुषार्थ प्रवृत्तिरुपपन्ना, एवमपि वा तदभ्युपगमे नित्यत्वेन प्रवृत्तिस्वभावत्वेन चास्याः शश्वत्प्रवृत्या न कश्चिन्मु-६ च्येत, ननु पुरुषार्थनिमित्ताऽस्याः प्रवृत्तिः, सत्त्वपुरुषान्यथाख्यातिश्च पुरुषार्थस्तथा च क्षीरवत् वत्सपोषार्थमचेतनापि तदर्थमेषा प्रवर्त्यति तत्सिद्धौ च निवर्त्यति, कोहि प्रेक्षावान् प्रेप्सितार्थनिवृत्तावपि तदर्थप्रयतमान एवासीत् एवं च प्रधानस्य प्रवत्तिश्च पुरुषस्य मोक्षश्चेति सर्वमुपपत्स्यते यदाह-वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥१॥ इतिचेन्न, किं पुरुषव्यापारादन्यथाख्यातिः, सच्चव्यापाराद्वाः, नाद्यः, तस्य शश्वनियापारत्वेनोपगमात् , न द्वितीयः, धर्मादिसहकृतस्य तस्य प्रवृत्तौ प्रवर्तकधर्मात् संसारनिबन्धनाभ्युदयसियाऽन्यथाख्यातेरयोगात् , अथ योगाभ्यासजात् निवर्तकधर्मादेषा भविष्यतीतिचेत्, किमसौ पुरुषस्य भवति प्रधानस्य वा, उभयोर्वा, नायः, विवेकख्याती सत्यामपि प्रधानस्य प्रागिव प्रवृत्तिप्रसङ्गात् , पुरुषस्य प्रधानाद् विवेकज्ञानेऽपि प्रधानस्य तस्मात्तदभावात्, न द्वितीयः, तस्याः पुरुषं प्रति अकिंचित्करत्वेन तदर्थवाभावापत्तेः, न तृतीयः,उभयोरपि कैवल्यप्रसङ्गात् , तथा च विवक्षितपुरुषार्थमिव अन्याथे-10 ANCHAMIRRORECHAR For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy