Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्तिः
॥१६४॥
ACACACCE
विकारतया तस्या धर्मत्वमिति वाच्यं, क्षीरविकारत्वेन दनोऽपि तद्धमत्वप्रसङ्गात् , इष्यत एवेदमितिचेन्न, गन्धरसवीर्यादिभेदेन क्षीरवत्तस्यापि पृथग धर्मितया सर्ववादिसिद्धेः, तस्मात् परिणामरूपोऽपि कार्यकारणभावो न संगतिमश्नुते, यदपि सुखदुःखमोहात्मकतया प्रकृति साधर्म्यण कथंचिद्भेदापादनं तदपि न संगतं, सर्वथा तादात्म्ये वैधयानुपपत्त्या भेदविरोधात्, बुद्ध्यादीनां तदात्मकत्वं तदपि न, तद्धि किमेषां सर्वदा सर्वत्र सर्वान् प्रति, आहो कदाचित् कचित्कांश्चिदेव प्रति, नाद्यः, तदादि देशकालनरावस्थाप्रतिनियमेन तेषां सुखाद्युत्पादकत्वं न स्यात् , दृश्यते च तदेव स्रक्चन्दनादिकमेकस्यैव पुंसो देशादिवि|भागेन जनयत् सुखादिकं, त एव च शब्दादयस्तदैव कस्यचित् सुखहेतवः कस्यचित् दुःखहेतव उपलभ्यन्ते सोऽयं विभागो न भवेत् , न द्वितीयः, सुखाद्यात्मकत्वविलोपप्रसङ्गात् , नहि नीलं नीलात्मतयाऽनीलव्यावृत्तं कंचित् प्रति नीलं कंचित् प्रति अन्यथेति, यदपि हेतुमत्वादिना वैधर्येण कथंचिद्भेदापादनं तदपि न संगतं, सर्वथा तादात्म्ये वैधानुपपत्या, भेदविरोधात् , एवमपि अविरोधे सच्चादिगुणभेदेन प्रकृतेरपि भेदापातात् , यदपि, असदकरणादित्यादिना * कार्यस्य कारणे सत्त्वात् तयोरैकात्म्यसमर्थनं, तदप्ययुक्तं सत्करणेऽपि अस्य दोषस्य समानत्वात् , यदि हि कारणव्यापारात्पा-3 गपि सदेव कार्य तदा तत्कारणत्वमेव जह्यात्, कार्यान्नियमेन प्राक्कालसम्बन्धि हि कारणं, यदनन्तरं च नियमेन यद् भवति तत्तस्य कार्य, नच सह भवतोरेव तयोस्तल्लक्षणोपपत्तिः, तथात्वे वा सह भावुकं सर्व सर्वस कार्य कारणं वा स्यात्, तथा चा- व्यवस्थया निरीहं जगजायेत, यदपि कारणैः कार्यस्याभिव्यक्तिकरणेन तेषां साफल्याविर्भावनं तदपि न चारु, अभिव्यक्तिर्हि कार्यस्योत्कर्षाधानं वा स्यात् , प्रतीतिर्वा, आवरणापनयनं वा, नायः, सत एव कार्यस्य तदसंभवात् , यथाहि पटाव
॥१६॥
For Private and Personal Use Only

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389