Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 340
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नैकान्तानित्यत्वम् , एवं च कारणासचे कार्याभावस्य सुलभत्वेन बुद्धरसिद्धौ तन्मूलोऽहंकारादिसर्गोऽपि प्राप्तोपसर्गों नावस्थातुमर्हति, बुद्धिज्ञानोपलब्धिशब्दानां च सर्वपार्षदं चैतन्यपव्यत्वमित्थमेव संगच्छत इतिस्थितं, यदप्युक्तं प्रकृतेः कार्यभेदाबुद्ध्यादय इति, तत्र किमेते प्रकृतेर्व्यतिरिक्ता अव्यतिक्ता वा, नाद्यः, कार्यस्य कारणात्मकत्वाभ्युपगमेन तदनुपपत्तेः, न द्वितीयः, कार्यकारणभावस्य भेदाधिष्ठानत्वात् , प्रकृतिः कारणं बुद्धिः कार्यमित्यादिव्यवहारस्य भेद एवोपपत्तेः, सर्वथाऽभेदेहि तयोबुद्धिकारणं प्रकृतिः कार्यमिति वैपरीत्यमपि आपद्येत अविशेषात् , अथ पूर्वपदार्थात् सहकारिसाहित्येन अपूर्वपदार्थान्तरोत्पादः कार्यकारणभावो नासाकमभिमतो येनैवं विरोधो नोयेत, किं तर्हि प्रधानस्य बुद्ध्यादिरूपेण परिणामः, स चाभेदेऽपि संगच्छते, एकस्यैव वस्तुनो रूपान्तरेण प्रादुर्भावादितिचेत्, अथ कोऽयं परिणामः, किं धर्मिण एव धर्मान्तररूपेण प्रादुर्भावः, धातुवादिप्रसिद्धेनौषधीपारदादियोगेन ताम्रादेः सुवर्णादिरूपतयेव, अथावस्थितस्यैव धर्मिणः प्राच्यधर्मव्यावृत्तौ कुकलासस्य पूर्ववर्णव्यावृत्तौ वर्णान्तरस्येव धर्मान्तरस्य प्रादुर्भावः, न प्रथमः, तदाहि प्रधानस्य बुद्धिरूपेण परिणाम इत्यर्थः स्यात् , ततश्च किं | तस्यैकदेशेनासौ भवेत्, कार्नेन वा, नाद्यः, तस्य निरवयवत्वाङ्गीकारेण तदभावात् , भावे वा तसादेवैकदेशात् बुद्धिप्रादुर्भा-18 वेनाऽवयवान्तराणामपरिणामितया वैयापातात् , अपसिद्धान्तप्रसङ्गाच नापरः, बुद्धिरूपतया सर्वथा भावेन प्रधानस्याभावापत्तेः, न द्वितीयः, प्रधानस्य प्राच्यधर्माभावेन तव्यावृत्या बुद्ध्याख्यस धर्मान्तरस्य प्रादुर्भावानुपपत्तेः, सत्त्वादिप्राच्यधर्मनिवृत्तौ तु बुद्धिरूपधर्मान्तरोत्पादाभ्युपगमे बुद्धस्तद्विरहापत्तेः, प्रकृतेरपि सत्वादिविरहेऽसत्त्वापाताच, नच सत्त्वादीनां धर्मत्वं गुणत्वेनैव तेषां भवताऽभ्युपगमात्, न च बुद्धेरपि धर्मत्वं सिद्धं, ज्ञानाधिकरणतया तस्सा धर्मित्वस्वीकारात्, न च प्रकृति For Private and Personal Use Only

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389