Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 304
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीयश्चेत्तर्हि ताभ्यामेव कार्यबहेतोर्व्यभिचारात् न ततः क्षित्यादिकर्तृसिद्धिः, तसान क्रमेण करणं । नापि यौगपद्यन एकदैव सकलकार्यकरणे क्षणान्तरे कर्त्तव्याभावात् , अकर्तृकवप्रसङ्गात् तथा च तज्ज्ञानादीनां वैफल्यापत्तिः, अपि च नित्यत्वाभ्युपगमे इच्छाप्रयत्न विषयनिरूपणार्थ ज्ञानस्योपयोगोऽपि नोपपद्यते असदादिज्ञानादीनां ह्यनित्यखेन क्रमभावित्वेन च ज्ञानविषयीकृते जलादौ इच्छा, तद्विषयीकृते च तसिन् प्रयत्नस्ततः शरीरपरिस्पन्दादिक्रमेण तदवाप्तिरिति यथोत्तरं कार्यकारणभावात् उपयोगः | संगच्छते, क्षित्यादिकज्ञानादीनां तु नित्यतया युगपद् भाविलेन कार्यकारणभावाभावात् न तदर्थं तेषामुपयोगसंभवः, तथा च तेषामनित्यखमभ्युपेतव्यम्, अनित्यपदार्थानां च भवन्मते कारणत्रयं विना नोत्पादः,तथाहि अस्सदादिज्ञानादीनामात्मा समवायिकारणम् ,आत्ममनःसंयोगोऽसमवायिकारणं, शरीरादिकं च निमित्तकारणं न च क्षित्यादिकर्तुर्ज्ञानादीनां समवायिकारणमात्रसंभवेऽपि इतरयोःसंभवोऽनभ्युपगमात् ,तथा च तेषामनित्यखाभ्युपगमे कारणत्रयसामय्यभावेन उत्पादाभावादभाव एव तत्र पर्यवस्येत् ,तस्मात् | तस्य ज्ञानादित्रयमिच्छता शरीरमपि अवश्यमेषणीयं, सकललोकातिशायिखात् ज्ञानादयस्तस्य कारणत्रयं विनापि भविष्यन्तीति चेत्, न, किक्षित्यादेरपि कार्यस्य तेन तथैव करणप्रसङ्गात् लोकोत्तरतायास्तस्य सर्वत्राव्याहतखात् तसादसादादिवत् शरीरादि-18 चतुष्टयशालिन एव तस्यापि कर्तृवमङ्गीकर्त्तव्यं, तथाच तादृशस्तस्य ग्रहणयोग्यस्यापि अग्रहणेन क्षित्यादेरकर्तृकखावसायाद् भवति प्रत्यक्षबाधितविषयोऽयं हेतुः, तथाच प्रत्यक्षबाधितखादस्य नानुमानबाधावकाश इति नेह तद्व्यवस्थापन, यदपि आगमस्य अनुकूलखान्न तेन बाध इत्युक्तं तदपि न, आगमप्रामाण्येहि ततः क्षित्यादिकर्तृसिद्धिस्तत्सिद्धौ च तत्कर्तृत्वेन आगमस्स प्रामाण्यमिति परस्पराश्रयप्रसङ्गाद्, आगमेन तद् बाधानुपपत्तेः, यदपि परेण प्रतिपक्षानुमानोपन्यासे शरीराजन्यखस्स असमर्थविषेशण For Private and Personal Use Only

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389