Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 306
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तवं कल्पनीयं दृष्टेनैव अर्थोपपत्तौ अदृष्टकल्पनाया अनवकाशात् , यदपि न संति नित्यज्ञानादय इत्यादिना पूर्वपक्षिते दोषवत्खेव तेषामदृष्टैकार्थसमवायस्वीकारो निर्दोषखाश्रयविशेषे तं विनापि ते भविष्यन्तीत्यनेन तेषां नित्यत्वसमर्थनं, तदपि न साधीयस्तत्सा-18 धकस्य कार्यखहेतोरुक्तन्यायेनाऽसिद्धवादिना तत्स्वरूपस्यैव अद्याप्यसिद्ध्या निर्दोषतायास्तत्र निरूपयितुमशक्यत्वात् धर्मिण एवासिद्धेः, भवतु वा कथंचित्कल्पनया तत्सिद्धिस्तथापि तस्य निर्दोषता किमनादिमुक्तखात् , उत कुतोऽपि हेतोर्दोषोन्मूलनात् , नाद्यः, निर्दोषखसिद्धौ अनादिमुक्तखसिद्धिस्तत्सिद्धौ च निर्दोषखसिद्धिरिति परस्पराश्रयप्रसङ्गात् , न द्वितीयः, दोषोन्मूलनात् प्राय सदोषखेन 8 असदादिवत् तस्य नित्यसर्व विषयज्ञानाद्यनुपपत्तेः, उपपत्तौ वा असदादीनामपि तत्प्रसङ्गात् , दोषोन्मूलनानन्तरं तज्ज्ञानादीनां सर्व विषयसादिकं भविष्यतीतिचेत्, भवतु तथापि दोषोन्मूलनजन्यतेन तेषां नित्यखासिद्धेः, अन्यथा भवदभिमतजीवन्मुक्त६ ज्ञानादीनामपि तदापातात , तथा च तैरेव शरीरिभिश्च सकलभूभूधरादिकार्यनिष्पत्तेः किमलोकिकैकतत्कर्तृकल्पनया तसा-14 निर्दोषत्वाऽसंभवात् न तस्य नित्यज्ञानादियोगस्तदयोगाच न सर्वकर्तृता,एवं च शरीरस्य कर्तृव्यापकखसिद्धरगृह्यमाणविशेषदशायां सत्प्रतिपक्षः प्रकृतो हेतुः, उक्तन्यायेन विशेषग्रहणे तु न्यूनवलतयाऽनेनैव बाधितवाद् भवदनुमानं नोदेतुमर्हतीति, एतेन पक्षध-15 मताबलादपि तादृपुरुषसाधनं निरस्तं, तत्सहकारिण्याः सामान्यव्याप्तेः प्रतिक्षेपेण तस्या अपि प्रतिक्षेपात् , एवं च कार्यखहेतोर्न क्षित्यादिकसिद्धिः, ननु कर्मभिः क्षित्यादेः सकर्तुकलं कथमुपपद्यते ? योहि यस्य कर्त्ता स तदुपादानाद्यभिज्ञो दृष्टो यथा घटादेः कुलालादिः, न च कर्मणां तदुपादानाद्यभिज्ञवं संगच्छते तेषामचैतन्यादितिचेत् ? ननु किं सर्वथा तदुपादानाद्यभिज्ञलं विवक्षितं किंचिद्वा, न प्रथमः, कुलालादेरपि घटायुपादानादीनां तद्गतावान्तरविशेषाणां वा सर्वेषामपरिज्ञानात्, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389