________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तवं कल्पनीयं दृष्टेनैव अर्थोपपत्तौ अदृष्टकल्पनाया अनवकाशात् , यदपि न संति नित्यज्ञानादय इत्यादिना पूर्वपक्षिते दोषवत्खेव तेषामदृष्टैकार्थसमवायस्वीकारो निर्दोषखाश्रयविशेषे तं विनापि ते भविष्यन्तीत्यनेन तेषां नित्यत्वसमर्थनं, तदपि न साधीयस्तत्सा-18 धकस्य कार्यखहेतोरुक्तन्यायेनाऽसिद्धवादिना तत्स्वरूपस्यैव अद्याप्यसिद्ध्या निर्दोषतायास्तत्र निरूपयितुमशक्यत्वात् धर्मिण एवासिद्धेः, भवतु वा कथंचित्कल्पनया तत्सिद्धिस्तथापि तस्य निर्दोषता किमनादिमुक्तखात् , उत कुतोऽपि हेतोर्दोषोन्मूलनात् , नाद्यः, निर्दोषखसिद्धौ अनादिमुक्तखसिद्धिस्तत्सिद्धौ च निर्दोषखसिद्धिरिति परस्पराश्रयप्रसङ्गात् , न द्वितीयः, दोषोन्मूलनात् प्राय सदोषखेन 8 असदादिवत् तस्य नित्यसर्व विषयज्ञानाद्यनुपपत्तेः, उपपत्तौ वा असदादीनामपि तत्प्रसङ्गात् , दोषोन्मूलनानन्तरं तज्ज्ञानादीनां
सर्व विषयसादिकं भविष्यतीतिचेत्, भवतु तथापि दोषोन्मूलनजन्यतेन तेषां नित्यखासिद्धेः, अन्यथा भवदभिमतजीवन्मुक्त६ ज्ञानादीनामपि तदापातात , तथा च तैरेव शरीरिभिश्च सकलभूभूधरादिकार्यनिष्पत्तेः किमलोकिकैकतत्कर्तृकल्पनया तसा-14 निर्दोषत्वाऽसंभवात् न तस्य नित्यज्ञानादियोगस्तदयोगाच न सर्वकर्तृता,एवं च शरीरस्य कर्तृव्यापकखसिद्धरगृह्यमाणविशेषदशायां सत्प्रतिपक्षः प्रकृतो हेतुः, उक्तन्यायेन विशेषग्रहणे तु न्यूनवलतयाऽनेनैव बाधितवाद् भवदनुमानं नोदेतुमर्हतीति, एतेन पक्षध-15 मताबलादपि तादृपुरुषसाधनं निरस्तं, तत्सहकारिण्याः सामान्यव्याप्तेः प्रतिक्षेपेण तस्या अपि प्रतिक्षेपात् , एवं च कार्यखहेतोर्न क्षित्यादिकसिद्धिः, ननु कर्मभिः क्षित्यादेः सकर्तुकलं कथमुपपद्यते ? योहि यस्य कर्त्ता स तदुपादानाद्यभिज्ञो दृष्टो यथा घटादेः कुलालादिः, न च कर्मणां तदुपादानाद्यभिज्ञवं संगच्छते तेषामचैतन्यादितिचेत् ? ननु किं सर्वथा तदुपादानाद्यभिज्ञलं विवक्षितं किंचिद्वा, न प्रथमः, कुलालादेरपि घटायुपादानादीनां तद्गतावान्तरविशेषाणां वा सर्वेषामपरिज्ञानात्,
For Private and Personal Use Only