________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्तिः
॥१४७॥
545AMAA%
अन्ततस्तन्निमित्तकारणस्य अदृष्टादेरपि अपरिच्छेदात् , तथा च कुलालादेरपि सर्वथा तदनभिज्ञतया कर्तृवं न स्यात् , न द्वितीयः, तदाहि मा भूत् कर्मणां स्वयमचैतन्येन तदुपादानाद्यभिज्ञवं जीवसहकृतानां तु तेषामपि कथंचित्तदभिन्नानां सामान्यतस्तदस्ति एव, जीवसंबन्धेनैव च तेषां वृत्तिलाभात् , तथा च तेषामपि क्षित्यादिकर्तृलं किंचित् तदुपादानाद्यभिज्ञतया उपपद्यत एव, न च सर्व एव कर्ता कार्य तदुपादानाद्यभिज्ञ एव करोतीति नियमोऽस्ति, सुषुप्तमूञ्छितादीनां स्वदेहावयवचेष्टायास्तदुपादानाद्यभिज्ञतामन्तरेणापि दर्शनात् , अपि च क्षित्यादिकर्तुमा॑नमेकमने वा, एक चेत्तदसौ जानाति नवा, जानातिचेत् , किं ज्ञानान्तरेण तेनैव वा, यदि ज्ञानान्तरेण, कथमेकं तस्यैव द्वितीयवात् , तेनैव चेन्न, अपसिद्धान्तात् , जैनैरिव भवद्भिर्ज्ञानस्य खसंवेदनखानभ्युपगमात् , एवं च स्वज्ञानापरिच्छेदे ऽपि सकलजगत्परिच्छेदेन तस्य सर्वज्ञताविष्करणमिति महती श्रद्धा, अनेकं चेत् | तदपि नित्यमनित्यं वा ? नित्यमनकं चेत् , तदपि प्रत्येकं सर्वविषयमसर्वविषयं वा, न तावदाद्यः, युगपदनेकस्य नित्यज्ञानस्य स्वप्रकाश्यप्रकाशनानभ्युपगमात् एकदैकस्यैव तत्स्वीकारात् एकेनैव सर्वार्थपरिच्छेदेऽन्येषां वैयर्थ्याच्च, न द्वितीयः, प्रतिनियताथेगोचरस्य नित्यस्यापि अनेकस्य तस्य भवताऽनङ्गीकारात्, अनेकमनित्यं चेन्न, अनभ्युपगमात्, अभ्युपगमे वा देहसम्बन्धप्रसङ्गात् , इतरथा असदादेरिव तस्यापि अनित्यानेकज्ञानानुपपत्तेः, उपपत्तौ वा मुक्तानामपि तदापातात् , अनित्यतया च कदाचिद् युगपद् विनाशे तस्याज्ञताप्राप्ते, क्रमोत्पादविनाशाङ्गीकारे च तज्ज्ञानानामसदादिज्ञानसमानतया तस्यासर्वज्ञताप्रसङ्गात् , एवमपि जीवन्मुक्तस्येव तस्य सर्वज्ञता भविष्यति इतिचेत् , तर्हि तस्येव देहनाशे लौकिकज्ञानाभावापातात् , न च तस्य देह एव नास्तीति वाच्यम् , अनित्यज्ञानादिमतोऽसदादेरिव, देहसम्बन्धस्य अवश्यंभावितया प्रतिपादनात् , एवं
॥१४७॥
For Private and Personal Use Only