________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
USAC
नित्याविच्छाप्रयत्नावपि तस्य प्रत्येकं किमेकैकोऽनेको वा एकैको चेतावपि किं सर्गेच्छाप्रयत्नौवा, संहारेच्छाप्रयत्नौ वा, युगपदेव उभय४| विषयौ द्वावपि वा, नाधस्तदाहि तबलात् शश्वजगतः सर्ग एव स्थान जातु संहारः, तद्धेखभावात् , न द्वितीयस्तदापि सर्वदा
|संहार एव स्थान चास्य संभवः सर्गाभावे तदनुपपत्तेः, न तृतीयः, तत्रापि युगपदुभययोः सर्गसंहारयोर्विरोधेन तद्विषययोरिPाच्छाप्रयत्नयोरेकदैवासंभवात् एवमभ्युपगमे वा भावानामेकमिन्नेव च क्षणे उत्पाद विनाशौ प्रसज्येतां, तथा च भवदिष्टयोः
सर्गप्रलययोरभावापत्तिः, भूरिकालव्यवधानेन भवता तयोरिष्टखात्, ईश्वरस्य नित्येच्छाप्रयत्नवत्तया शश्वजगत्सर्गप्रलयकारि| त्वेन च तयोः क्षणमपि व्यवधानासंभवात् , अन्यथा तदिच्छाप्रयत्नयोर्नित्यखाभ्युपगमवैफल्यात , तसात्सौगतैरिव भवद्भिरपि वर्तमानानामेव सर्वभावानां सर्गप्रलयावेषणीयौ केवलं सौगतानामेकक्षणव्यवधानेन निर्हेतुकयोस्तयोरङ्गीकारो, भवता तु युगप-10 देव ईश्वरकर्तृको तौ प्रसज्येते, न च सृष्टानां सर्गः प्रलीनानां प्रलयश्चान्याय्यौ निष्पादितक्रिये कर्मणि कारकस्य कारकन्यायातिपातात् इतिवाच्यं, हेतुबलायातस्यार्थस्य निराकर्तुमशक्यखात् , इतरथा ईश्वरस्य सर्वदा सर्वकर्तृकखाऽभ्युपगमविरोधात् , तदेवमिच्छाप्रयत्नयोर्नित्यखाङ्गीकारे पुराणादिप्रसिद्धपुराणसर्गप्रलयविधिविलोपेन अपूर्वा सर्गप्रलयौ प्रसाधयद्भिरीश्वरस्य लोको-15 त्तरः कश्चिन्महिमातिशयः ख्यापितो भवति, न चैवमेवास्तु इति वाच्यम् , अत्यन्तासंभविवेन असार्थस्याप्रमाणिकतया शशविषाणादेरिव सहृदयानामभ्युपगमानहखात्, अथ एकरूपावेव तस्वेच्छाप्रयत्नौ केवलं सर्जनीयोपसंहरणीयपदार्थोपाधिभेदात्, स्फटिकमणिवत् तत्तजपाकुसुमाग्रुपाधिवशात् नानेव प्रतिभासेते इतिचेत्, ननु किं पदार्थानां सर्जनीयलं संहरणीयलं च, नैसर्गि-15 कमौपाधिकं वा, न तावन्नैसर्गिक सर्जनीयसंहरणीयपदार्थानामभिन्नखात्, भेदेहि तेषां तदुपाधि भेदात्तदिच्छाप्रयत्नयो ना
%A5%
For Private and Personal Use Only