SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्धा ॥१४८॥ AASANDGAOMICROKARSA खप्रतिभासः, नचैवं सर्जनीयानामेव संहरणीयखात् तस्मात् सर्गेच्छातत्प्रयत्ननिर्वय॑ख, सर्जनीयत्वं संहारेच्छातत्प्रयत्ननिवर्त्यवं तु |संहरणीयसमिति स्वाभाविकेश्वरेच्छाप्रयत्नद्वयजन्यखोपाधिकृतमेव भावानां तथाखं न नैसर्गिकमिति विपरीतापत्तिः,तथा च तदिच्छा प्रयत्नयोनित्यवाद् युगपदेव पदार्थानां सर्गप्रलयौ स्याताम् , अथ प्राणिनां देशकालादिप्रतिनियमेन फलवहौ धर्माधर्मी अपेक्ष्य | ईश्वरस्य सर्गादिकरणं, तथा च तयोः क्रम उपपद्यते इतिचेन्न, धर्माधर्मयोरपि कार्यतया प्रलयसंभवेन तदानीमसत्त्वापातात एवमस्वीकारे वा तस्य सर्वसंहारिवासिद्धेः, तथा च न्यायटीकाकृतो वाचस्पतेर्विश्वव्यापी विश्वशक्तिः पिनाकी, इत्यादिश्लोके विश्वसंहारकारीति तद्विशेषणं, विश्वशब्देन कार्यस्तोम इत्युदयनकृतं च तद्व्याख्यानमसमीक्षिताभिधानं भवेत् , युज्यते च तस्य कारुणिकतया तयोः प्रलयः पुण्यापुण्यक्षयान्मोक्ष इति वचनाद् अनायासेनैव तेन प्राणिनां मोक्षप्रापणात् , न च सर्गा-18 रम्भेऽनयोरपि तद्भावात् कथं मोक्ष इति वाच्यं, तदानीमपेक्षाकारणधर्माद्यन्तराभावेन तत्सर्गस्यैवानुपपत्तेः, तद्भावे चानवस्थापापात् , एवं च तदानीं धर्माधर्मलक्षणापेक्षाकारणाभावात् प्रकृतसर्गस्य अभावप्रसङ्गः, मा भूत् वा तयोः प्रलयः, तथापि लब्धवृत्तिकयोरेव हि तयोः सहकारिखमास्थीयते, तथा च सर्गे सति तयोर्वृत्तिलाभः, अन्यथा प्रलयेऽपि तत्प्रसङ्गात्, तस्मिंश्च सति सर्गः प्राणिनां धर्माधर्मावनधिष्ठाय ईश्वरेणापि सर्गानारम्भात्, इति परस्पराश्रयप्रसङ्गात् नापेक्षाकारणखं तयोः संगच्छते, न चाष्टगुणेश्वरवादिमतेन अलब्धवृत्तिष्वपि प्राणिनामदृष्टेषु स्वधर्माधर्माभ्यामेवासौ तदानीं सर्ग विधास्यतीति वाच्यम्, अन्यधर्माधर्माभ्यामन्येषां सर्गस्यादृष्टफलसुखादेश्च अनुपपत्तेः, उपपत्तौ वा ईश्वरादृष्टेनैव प्राणिनां सर्वदा तत्फलसिद्धेस्तेषु तत्कल्पनावेयर्थ्यप्रसक्तेः, एवं च सदिच्छाप्रयत्नयोरेकखनित्यनाङ्गीकारे तयोरेवानेकखप्रसङ्गः, सर्गप्रलययोश्चानुपपत्तिरिति, अथानेकौ तौ १४८॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy