SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SACREAMSANCHORG तस्येति चेन्न, अनभ्युपगमात् युगपत् सर्गप्रलयप्रसङ्गाच्च, किं च सर्गादौ तस्य प्रवृत्तिर्न युक्ता कृतकृत्यखाद्, क्रीडार्था इति चेन्न, तादृशां क्रीडाया अभावात् , दृश्यते एव तादृशामपि ईश्वराणाम् एहि गच्छ पत उत्तिष्ठ वद मौनं समाचरेत्यादिरूपेण क्रीडा इतिचेन्न, तेषांहि लक्ष्मीगोंद्धरतया कचिदपि रत्यलाभेन अकृतार्थतया तादृविनोदप्रवृत्तेः, तथा चागमः, 'परपरि| वायविसाला अणेगकंदप्पविसयभोगेहिं, संसारत्था जीवा अरइविणोयं करिति एवमिति, एवं च लौकिकेश्वरवद् यदि तस्यापि अन्यथा आत्मनो रतिमलभमानस्य प्रलये प्रवृत्तिस्तदा 'एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते' इति न्यायेन साधीयसी तस्य निर्दोषता कृतार्थता च समाहिता स्यात् , अथ कारुण्यादसौ सर्गादौ प्रवर्तते इतिचेत्तर्हि प्राणिगणं न संहरेत् , सुखिनमेव च सृजेन्न दु:खिनमन्यथा तदनुपपत्तेः, क्षेत्रज्ञगतधर्माधर्मसहकारितया तं तथा सृजतीतिचेन्न, धर्माधर्मयोरपि तदनधिष्ठितयोः खफलोत्पादनेऽसामर्थ्यखीकारात् तदुक्तम्-अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् श्वभ्र वाश्वभ्रमेव वा॥१॥ अन्यथा तस्यैश्वर्यच्याघातात , तथा च दयालुतया तस्य अधर्माधिष्ठानं न संगतिमियर्ति, अथ धर्माधर्मलक्षणकर्मणां बलीयस्तया तत्पारवश्येन तदनुरूपं फलं ददानोऽसौ नोपालम्भमर्हतीतिचेत् , तर्हि तान्येव जीवसहकृतानि प्रागुक्तन्यायेन जगनिर्मितावभ्युपगम्यतां किमनेन कर्मसुतस्याप्रभविष्णुतया तेषामेवेश्वरखात् तदुक्तम्-कर्मणां पारतव्येण यदि वास प्रवर्त्तनं । कर्मणामीशता प्राप्ता ततः कृतमनेन किम् ॥ १॥ एतेनार्थिवानर्थिवाभ्यां कारकलं व्याप्तं तत्रार्थिते ऽनैश्वर्यप्रसङ्गो ऽनर्थिखे चाचैतन्यप्रसङ्गः, एवमात्मखानात्मनाभ्यां तत्रात्मलेनित्यज्ञानत्वादिप्रसङ्गोऽनात्मत्वे चाचैतन्यप्रसङ्गः सिद्धसाधनं च, एवं चेतनस्य प्रवृत्ति कारुणिकत्वाकारुणिकत्वाभ्यां व्याप्ता, तत्र कारुणिकत्वे दुःखानुत्पादकत्वप्रसङ्गोऽकारुणिकत्वे चावीतरागत्वप्रसङ्ग For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy