SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ५ लि. ॥१४॥ इत्यादयस्तो ईश्वरमधिकृत्याश्रयासिद्धाः, क्षित्यादिकमधिकृत्य च विपर्ययाऽपर्यवसिता इत्यादि यदुक्तमुदयनेन तदपि निरस्त, यदि हीश्वरो यद्यर्थिवे सति कर्ता स्यात्तदाग्नीश्वरः स्याद् , इत्यादि क्रमेण अमी तर्का उद्भाव्येरन् , तदा ईश्वरासिद्ध्या भवेयुराश्रयासिद्धाः, नचैवमास्थीयते क्षित्यादिकमधिकृत्य एषामुद्भावनखीकारात्, ननु तत्रापि विपर्ययापर्यवसानं दृषणमुक्तं, तथाहि यद्यर्थिना कळसकर्तृकं क्षित्यादिकं स्यात् तदा अनीश्वरकर्तृकं स्यादित्याद्यापादनेनानिष्टप्रसङ्गरूपाणाममीषां नचानीश्वरकतकमित्यादिविपर्ययः, स च क्षित्यादेरीश्वरकर्तृकखाभ्युपगमेनैव पर्यवस्येत् , नचैतदभ्युपेयते भवता, तथा च विपर्ययाऽपर्यवसानेन तर्काभासखाद् एभिः कथमीश्वरनिराकरणमितिचेत् ? उच्यते-सर्वेषामपि एषां यथायथं विपर्ययपर्यवसायिखेन आभासखानुपपत्तेः तथाहि व्याप्तिमवलम्ब्य अनिष्टप्रसङ्गरूपस्तर्क इति तर्कलक्षणम् , अत्रच यदर्थिकर्तृकं तदनीश्वरपूर्वकं यथा घट इति व्याप्तिपुरस्कारेण यद्यर्थिकर्तृकं स्यादनीश्वरकर्तृकं स्यादित्यनिष्टप्रसंजनेन प्रथमस्तर्कः प्रवर्त्तते, अस्य च नचानीश्वरकर्तृकमित्येवं लक्षणे विपर्यये पर्यवसानं तदा न स्याद् , यदीश्वरानीश्वरयोर्भावाभावयोरिव परस्पराभावात्मवं स्यात् , तदाहि नचानीश्वरककमित्यनीश्वरकर्तृकखनिषेधस्य ईश्वरकर्तृकखविधिनान्तरीयकलेन तत्र तात्पर्य स्यात् , तथा चेश्वरासिद्ध्या विपर्यया ऽपर्यवसायिखेनास्य आभासता भवेत् , नचैवमस्ति किं तर्हि उक्तन्यायेन शशविषाणादिवद् आभासप्रतिपन्नभवदभ्युपेतेश्वरनिषेधमात्रेण अनीश्वशब्दो ऽसदादौ वर्तते, एवं च नचानीश्वरकर्तृकमित्यस्य, न चासदादिकर्तृकमित्यर्थः स्यात् , तथा च न चासदादिपूर्वकं तसानार्थिकर्तृकम् इत्युपसंहारे कथमस्य तर्कस्य विपर्ययपर्यवसायित्वं न भवेत् , मीमांसकाभिप्रायेणाञ्चैतन्यादर्थित्वशून्यैः कर्मभिरेव क्षित्यादेः सकर्तृकत्वसिद्धेः, एवं यद्यर्थिकतकं स्याद् अचेतनपूर्वकं स्याद् इत्येवं रूपस्य द्वितीयस्यापि, न चाचेतनपूर्वक ॥१४९॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy