________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RAMAKARMACROCOCCAL
तस्मानानथिंपूर्वमिति विपर्ययोपसंहारे कर्मापेक्षैस्तत्फलभोक्तृभिरर्थिभि वैः सकर्तृकत्वस्वीकारे विपर्ययपर्यवसानमसन्मतेऽपि समीचीनमेव, तथा यदि आत्मकर्टकं स्यादनित्यज्ञानादिमत्पूर्व स्यादित्येवंविधस्य तृतीयस्थापि न चानित्यज्ञानादिमत्पूर्व तसानात्मपूर्वमिति विपर्ययं निगमने पूर्ववत्मीमांसकनीत्या अनात्मभिर्ज्ञानविकलैः कर्मभिः क्षित्यादिसिद्धौ विपर्ययपर्यवसायित्वं स्फुटमेव, तथा यदि अनात्मकर्तृकं स्यादचेतनपूर्वकं सादित्येवं लक्षणस्य चतुर्थस्थापि, न चाचेतनपूर्व तसानानात्मपूर्वम् इत्युपसंहारे प्राग्वत् कर्मसहचरैर्जीवैः सहकर्तृकत्वांगीकारेऽसन्नीत्यापि विपर्ययपर्यवसायित्वं संगच्छत एव, एवं क्षित्यादिसर्गरूपा प्रवृत्तिर्यदि कारुणिकप्रयुक्ता स्याद् , दुःखमयी न स्यात् , इत्येवं खरूपस्य पञ्चमस्यापि दुःखमयी चेयमुपलभ्यते तसान कारुणिकायुक्ता इत्युपसंहारे भोक्तृभिरेव आत्मभिः कर्मद्वारा सर्गसिद्धेविपर्ययपर्यवसायित्वं युज्यते एव, तथा यदीयं प्रवृत्तिरकारुणिकप्रयुक्ता स्यादवीतरागपूर्वा स्यात् , इत्येवं रूपस्य षष्ठस्यापि, नचेयमवीतरागपूर्वा तस्मान्न अकारुणिकप्रयुक्तेति निगमने कारुणिकत्वाकारुणिकत्वयोर्वीतरागत्वसरागत्वयोश्च चेतनधर्मत्वात् कर्मणां चाचैतन्येन तदभावात् तादृक्कर्मभिरेव क्षित्यादिनिर्मा-| णसिद्धेविपर्ययपर्यवसायित्वमुपपद्यत एव, व्याप्तिश्चैतेषु सर्वेष्वपि प्रथमतर्कवत् स्वयमूहनीया तां विना तर्काप्रवृत्तः, तदेवमेभिस्तविपर्ययपर्यवसित्वेन क्षित्यादेः पराभिमतकतपूर्वकत्वनिरासाद् विपर्ययापर्यवसायितया अमी तर्कामासा इति यदुक्तं | परेण तदनालोचिताभिधानम् , अपिच प्रतिताणामेवमाभासतापादने जगतः प्रधानादिकर्तृकत्वसिद्ध्यर्थ सांख्यादिभिरुपन्यस्ते प्रमाणे यदा नैयायिकादयस्तन्निरासाय कर्तृव्यापकार्थित्वानार्थत्वादिद्वारेण एतानेव तर्कानुपन्यस्येयुस्तदा तेऽपि प्रतिब्रूयुः, प्रधानादिकमधिकृत्याऽऽश्रयासिद्धत्वेन जगदधिकृत्य तु विपर्ययपर्ययवसितत्वेन आभासत्वादमी निरवकाशा इति, तथा च प्रधानादिसिद्धे
For Private and Personal Use Only