________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandit
पंचलिंगी
बृहद्वृत्तिः
॥१५॥
स्तन्मूलतदभ्युपेतसकलसत्कार्यादिवादसिद्धिश्च स्यातां, आस्तामितिचेन्न, एवं हि जल्पकथायां सांख्येन सत्कार्यवादसाधनाय साधनोपन्यस्ते घटकारणत्वेन इष्टानां च दण्डचक्रादीनां व्यञ्जकत्वे व्यवस्थापिते ऽस्तु तर्हि सत्कार्यमिति नैयायिकेनोक्ते समानतात्रिकतया सांख्यस्य तं प्रति अपसिद्धान्तानुद्भावनप्रसङ्गात् , तथा च निवृत्ता तयोः जल्पकथा, तस्मात्प्रतितर्काणामित्थमाभासातापादनं न संगतमाभाति, किंच यदि ईश्वरो व्यापकतया सर्वविषयज्ञानादिमत्वेन क्षित्यादिवत् कुविन्दादिसाधारणमपि पटादिकार्य निर्मिमीते, तदा किमर्थ तत्र पटादिकारणानां वेमादीनां कुविन्दाद्यपेक्षा, स्वाधिष्ठानार्थमिति चेत्, न, नित्यव्यापकप्रयलवता ईश्वरेणैव क्षित्यादिनिर्माणे परमाण्वादिवत्तदधिष्ठानात् अधिष्ठितानामपि अधिष्ठात्रन्तरापेक्षायामनवस्थापातात् , पटादिनिर्माणं विना कुचिन्दादेस्तजन्यभोगासिद्धेः, तदर्थ तत्र तदपेक्षा कारकाणामितिचेत् ' भवतु अत्र कथंचिद्भोगार्थ तेषां तदपेक्षा , क्षित्यादि| निर्माणे तु तत्कारकाणां किमर्थमीश्वरापेक्षा, न तावत्तभोगसिद्ध्यर्थम् अनादिमुक्तत्वेन तस्य तदनभ्युपगमात् ,ईश्वराधिष्ठानं विनाऽचैतन्येन खतोऽप्रवृत्तेस्तदर्थं तेषां तदपेक्षा इतिचेत् , न,शरीरं तदवयवांश्च विना प्रयत्नवतोऽपि कारकाधिष्ठानायोगात् ,अन्यथा छिन्नकरचरणाद्यवयवस्यापि कुविन्दस्य प्रयत्नवत्तया तन्त्वादिकारकाधिष्ठानेन पटनिर्मितिप्रसङ्गात् , प्रयत्नस्य देहसम्बन्धेऽनित्यत्वमुपाधिनित्यस्तु असौ तं विनापि भविष्यतीतिचेन्न,यः शरीरी सोऽनित्यप्रयत्नवान् इति साध्यव्यापकत्वेऽपि उभयसंप्रतिपन्नस्य नित्यप्रयत्नस्य कचिदपि असिया ईश्वरस्य चाद्यापि साध्यतया तन्नित्यप्रयत्नेनापि व्यभिचारानुद्भावनाच साधनस्यापि व्यापकत्वेनास्य उपाधित्वासिद्धेः, तसाद्यथा वित्यादिनिर्माणे तस्य न तत्कारकाधिष्ठानं तथा पटादिनिर्माणेऽपि तन्न संगच्छते, आस्तां वा कथंचिदीश्वरेण तदधिष्ठानं तथापि असौ किं कुविन्दात् प्राक् तन्त्वादीन् अधितिष्ठति, सह पश्चाद् वा ? नाद्यः, कुविन्दव्यापारात्
॥१५॥
For Private and Personal Use Only