SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KASAALHAASARAR प्रागपि पटोत्पादप्रसङ्गात् , तथा च सुखमास्तां कुविन्दः, तत्साध्यस्य ईश्वरेणैव साधनात् । न द्वितीयः, अन्यतरस्य अपार्थक्यापातात् , अथ ईश्वरस्य नित्यप्रयत्नवत्तया कुविन्दस्य च भोगसिद्धये सहैव तदधिष्ठानान्नोभयोरपि अपार्थक्यम् , एकतरेण कार्यनि-81 प्पत्तौ अन्यतरस्य वैयर्थ्यमित्यपि न नियमः, परिमाणोत्पादे संख्यापरिमाणप्रचयानामेकैकशः सामर्थेऽपि संभूयापि प्रचितावयवमहत्तूलपिण्डत्रयारब्धे महत्तरे तूलपिण्डे तेषां तदर्शनात् , तथेहापि भविष्यतीतिचेत् ? भवतु कुविन्दस्य भोगार्थ तदर्थ तदधिष्ठानम् , ईश्वरस्य तु नित्यप्रयत्नवत्तया प्रागपि तदधिष्ठानप्रसङ्गेन सहभावायोगात् , अथ कुविन्दभोगसिद्धार्थ सहैवाऽसौ अधितिष्ठति तत्साहाय्यं विना तस्य भोगायोगादिति चेन्न, प्रयत्ननित्यतावैफल्यापातात् , तत्सत्वेऽपि प्रागेव तदधिष्ठानाभावात् , यदपि परिमाणकारणोदाहरणेन संभूय तदधिष्ठानव्यवस्थापनं तदपि न सुन्दरं, संभूयकारिखेऽपि संख्यादीनां प्रत्येक तदारब्धात्परिमाणात् संभूय तदारब्धस्य तत्र वैजात्योपलम्भात् , पटनिर्माणे तु मनागपि तदनुपलम्भात् , को भवतोऽन्य | ईश्वरकुविन्दयोः संभूय कारिवं श्रद्दधीत, यदि चैकैकशः संख्यादिभिः परिमाणवत् ताभ्यां निष्पादितः पटः कचिदुपलभ्येत तदा संभूय निष्पादिते तस्मिन्नपि परिमाण इव वैजात्यमपि दृश्येत, न चैवं, कुविन्दनिर्मितस्य दर्शनेपि केवलेश्वरनिर्मितस्य तस्थादर्शनात्, न च जेनैः संख्यादीनां परिमाणं प्रति कारणवमिष्यते, इत्यसमो दृष्टान्तः तस्मान्न सहाधिष्ठानसंभवः । न तृतीयः, प्रथमभाविना कुविन्दाधिष्ठानेनैव पटनिर्माणात् चरमभाविन ईश्वराधिष्ठानस्य वैयर्थ्यात्, संपादितस्य अशक्यसंपादनखात् , तसात् सकलकारकप्रयोजकतया कर्तृत्वेन कुविन्दमेव कारकाणि अपेक्षन्ते न ईश्वरं तस्य तत्र अनुपयोगात्, ननु मा भूत् पटादिकार्य प्रति तेषामीश्वरापेक्षा, तथापि शरीरमन्तरेणापि यथा कथंचित् क्षित्यादिनिर्माणे तत्कारकाणां तदपेक्षा, For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy