Book Title: Panchlingi Prakaranam
Author(s): Jineshwarsuri
Publisher: Pitambar Panna Shreshthi

View full book text
Previous | Next

Page 318
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SAMACHAR पत्तेः, एवं क्षित्यादिप्रयत्नवद् विनाश्यं विनाश्यत्वात् पाट्यमानपटवदित्यनेन संहारद्वारा यदीश्वरसाधनं, तदपि न साधीयः संहारस्य प्रागेव प्रतिषेधात् , तत्स्वीकारेऽपि वा प्रयत्नस्य शरीरनान्तरीयकखेन तस्य चाव्यापकलेन तदविनाभाविनः प्रयत्नस्थापि तथालेन युगपद् विश्वसंहारानुपपत्तेः, यदपि यदेतत्पटादिनिर्माणनैपुण्यं कुविन्दादीनां वाग्व्यवहारश्च व्यक्तवाचा, लिपि तत्क्रमव्यवहारश्च बालानां, स सर्वः खतपुरुषविश्रान्तो व्यवहारत्वात् , निपुणतरशिल्पिनिर्मितापूर्वघटनानैपुण्यवत् , चैत्रमैत्रादिपदव्यवहारवत् , पत्राक्षरवत्, पाणिनीयवर्णक्रमनिर्देशवच्च, इत्यनेन तत्साधनं, तदपि न शोभनं, महाविदेहादिक्षेत्रापेक्षयाऽस्यानादित्वात् , तथात्वे च खतत्रपुरुषविश्रान्तेरनुपयोगेनासाध्यत्वात् अनादित्वेनैव निखिलप्रागुक्तविश्वव्यवहारस्य सिद्धेः, भारताद्यपेक्षया च सिद्धसाधनं, तत्रहि सुषमदुषमादौ तत्कालवर्तिनां पुंसां कुविन्दायभावेऽपि कल्पपादपेभ्य एव अंशु-13 कादिप्राप्त्या तन्निर्माणानुपयोगे कालान्तरेण च कल्पद्रुमविगमेन तल्लिप्सायां प्राक्तनजन्मसंचिताचिन्त्यपुण्यसंभारार्जिततीर्थकरनामकर्मोदयात् गर्भाधानादारभ्याकृत्रिमज्ञानत्रययुजा जातिसरेण भगवता नाभितनयेन पटघटलिप्यादिनिर्मितिव्यवहा| रस्य प्रदर्शनेन तत्र स्वातत्रभाजि तद्विश्रान्तरभ्युपगमात् , किं च असत्पक्ष एवास्य व्यवहारस्य खतत्रपुरुषविश्रान्तिरुपपद्यते व्यवहारयितुमनोवाक्कायभाक्त्वेन च विशिष्टज्ञानवत्वेन परेषां तज्ज्ञापनसंभवात् , भवतां तु ईश्वरस्य तद्विरहितत्वस्वीकारेण तदयोगात्, ननु ईश्वरोऽपि शरीराद्यन्वयव्यतिरेकानुविधायिनि वेदनिर्माणादिकार्ये तद् गृह्णाति इति चेत्, ननु तच्छ- रीरवर्तिनो ज्ञानेच्छाप्रयत्नाः किं नित्या अनित्या वा, नाद्यः, देहावच्छिन्नानामसदादिज्ञानवदनित्यत्वप्रसङ्गात् , अस्सदादिदेहावच्छिन्नास्ते तथा नतु ईश्वरदेहावच्छिन्ना इति चेन्न, कृतकत्वेन अस्सदादीश्वरदेहयोरविशेषात् , भवन्तु वा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389