________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SAMACHAR
पत्तेः, एवं क्षित्यादिप्रयत्नवद् विनाश्यं विनाश्यत्वात् पाट्यमानपटवदित्यनेन संहारद्वारा यदीश्वरसाधनं, तदपि न साधीयः संहारस्य प्रागेव प्रतिषेधात् , तत्स्वीकारेऽपि वा प्रयत्नस्य शरीरनान्तरीयकखेन तस्य चाव्यापकलेन तदविनाभाविनः प्रयत्नस्थापि तथालेन युगपद् विश्वसंहारानुपपत्तेः, यदपि यदेतत्पटादिनिर्माणनैपुण्यं कुविन्दादीनां वाग्व्यवहारश्च व्यक्तवाचा, लिपि तत्क्रमव्यवहारश्च बालानां, स सर्वः खतपुरुषविश्रान्तो व्यवहारत्वात् , निपुणतरशिल्पिनिर्मितापूर्वघटनानैपुण्यवत् , चैत्रमैत्रादिपदव्यवहारवत् , पत्राक्षरवत्, पाणिनीयवर्णक्रमनिर्देशवच्च, इत्यनेन तत्साधनं, तदपि न शोभनं, महाविदेहादिक्षेत्रापेक्षयाऽस्यानादित्वात् , तथात्वे च खतत्रपुरुषविश्रान्तेरनुपयोगेनासाध्यत्वात् अनादित्वेनैव निखिलप्रागुक्तविश्वव्यवहारस्य सिद्धेः, भारताद्यपेक्षया च सिद्धसाधनं, तत्रहि सुषमदुषमादौ तत्कालवर्तिनां पुंसां कुविन्दायभावेऽपि कल्पपादपेभ्य एव अंशु-13 कादिप्राप्त्या तन्निर्माणानुपयोगे कालान्तरेण च कल्पद्रुमविगमेन तल्लिप्सायां प्राक्तनजन्मसंचिताचिन्त्यपुण्यसंभारार्जिततीर्थकरनामकर्मोदयात् गर्भाधानादारभ्याकृत्रिमज्ञानत्रययुजा जातिसरेण भगवता नाभितनयेन पटघटलिप्यादिनिर्मितिव्यवहा| रस्य प्रदर्शनेन तत्र स्वातत्रभाजि तद्विश्रान्तरभ्युपगमात् , किं च असत्पक्ष एवास्य व्यवहारस्य खतत्रपुरुषविश्रान्तिरुपपद्यते व्यवहारयितुमनोवाक्कायभाक्त्वेन च विशिष्टज्ञानवत्वेन परेषां तज्ज्ञापनसंभवात् , भवतां तु ईश्वरस्य तद्विरहितत्वस्वीकारेण तदयोगात्, ननु ईश्वरोऽपि शरीराद्यन्वयव्यतिरेकानुविधायिनि वेदनिर्माणादिकार्ये तद् गृह्णाति इति चेत्, ननु तच्छ- रीरवर्तिनो ज्ञानेच्छाप्रयत्नाः किं नित्या अनित्या वा, नाद्यः, देहावच्छिन्नानामसदादिज्ञानवदनित्यत्वप्रसङ्गात् , अस्सदादिदेहावच्छिन्नास्ते तथा नतु ईश्वरदेहावच्छिन्ना इति चेन्न, कृतकत्वेन अस्सदादीश्वरदेहयोरविशेषात् , भवन्तु वा
For Private and Personal Use Only