________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्तिः
॥१५३॥
AASARAISRO
ॐ नित्यास्तथापि किमशरीरेश्वरसंबन्धिन एव ते, तदन्ये वा, न प्रथमः, शरीरान्वयव्यतिरेकानुविधायिनः कार्यस्य
तेभ्योऽनुदयप्रसङ्गात्, शरीरावच्छेदात्तस्यापि कार्यस्य तेभ्य उदय इति चेन्न, शरीरान्वयव्यतिरेकानुविधायितदननुविधायिनोः कार्ययोर्युगपदुत्पादाभ्युगपमे परस्परविरुद्धकार्यद्वयजनकत्वलक्षणविरुद्धधर्मसंसर्गेण तेषां भेदप्रसङ्गात् , व्यापकत्वादुभयरूपमपि कार्य तेभ्य उत्पत्स्यते इति चेन, प्रयत्नस्य शरीरनान्तरीयकत्वेन तस्य चाव्यापकत्वेन तदनुपपत्तेः, प्रयत्नं विना च कार्यानुत्पादात् , न द्वितीयः, अनभ्युपगमात् , नापि अनित्याः, तथात्वे देहानवच्छिन्नावच्छिन्नतया नित्यानित्यभेदेन ईश्वरज्ञानादीनां प्रत्येकं द्वैतापत्तेः, न चैवं तज्ज्ञानादीनां नित्यैकैकतयैव स्वीकारात् , मनोयोगप्रसङ्गाचानित्यानां तेषां मनस्सम्बन्धनान्तरीयकत्वात् , अपि च यदीश्वरः कार्यवशाद् अन्तरान्तरा शरीरं गृह्णाति, तर्हि | तत्कर्तृभागे निविशिते न वा, न प्रथमः, तदाहि ज्ञानचिकीर्षाप्रयत्नशाली एवहि कर्ता शरीरं तु न कर्तृभागे निविशिते, अन्यत्रोपक्षीणत्वाद् इत्यभिधानं प्रलापमात्रमेव स्यात् , तथा च परेण शरीराजन्यत्वेन क्षित्यादरकर्तृकत्वसाधनेऽजन्यत्वेनैव आकाशस्य तत्सिद्मभ्युपगमेन तं प्रति भवतो हेतोरसमर्थविशेषणत्वोद्भावन मसंगतं भवेत् , शरीरस्य ज्ञानादिवत् कर्तृभागे निवे| शेन समर्थत्वाद् तदजन्यत्वेनैव आकाशस्थापि अकर्तृकत्वसिद्धिः, तथा च निरनुयोज्यानुयोगो भवतः प्रसज्येत, न द्वितीयः,
एवंहि देहान्वयव्यतिरेकानुविधायिकार्यसिद्धये तद्ग्रहणमीश्वरस्य न स्यात् , तस्य कर्तृत्वभागानिवेशेन कार्यविशेषस्य तदनु- त विधानानुपपत्तेः, ननु यदि ईश्वरस्य खनिर्मेये कार्यसामान्ये तदनुविधानं भवेत् , तदा भवेद् देहस्य कर्तृभागनिवेशो, यदा 8
तु कार्यविशेष एव तस्य तदनुविधानं तदा कथं तस्य तन्निवेशः स्यादिति चेत्, यद्येवं श्वासप्रश्वासजागराद्यज्ञानादिषु कार्येषु
॥१५३॥
For Private and Personal Use Only