________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
॥१५॥
|च्छिदाहेतुप्रवृत्तिदर्शनात् , न तादृक् सा यादृक् चेतनाधिष्ठितानां तेषामिति चेन्न, चेतनाधिष्ठितस्यापि धुणस्य अबुद्धिपूर्व
बृहद्वृत्तिः दारुषु भक्षणद्वाराऽक्षरचणाक्षरप्रतिमाक्षरोल्लेखवत्या इव कदाचित् तादृश्या अपि तस्याः संभवात् , तथा च साध्यविकलो | ५ लि. दृष्टान्तः, अपि च सुषुप्तमूञ्छिताद्यवस्थासु पुंसामहिदंशचन्दनलेपादिना तजन्यापकारोपकारदर्शनेन धर्माधर्मयोरचेतनयोरपि प्रवृत्तिरुपलभ्यते, न च तयोश्चेतनाधिष्ठानं भवदभ्युपगमेन तदानीमात्मनो ज्ञानाद्यभावेन तदसंभवात् , यदपि क्षित्यादिब्रह्माण्डपर्यन्तं साक्षात् परम्परयाऽवधारकप्रयत्नाधिष्ठितं गुरुत्वे सत्यपि अपतनात् वियति विहङ्गशरीरवत् संयुक्तद्रव्यवच्चेति धृते-18 रीश्वरसाधनं तदपि न संगतं, प्रासादादीनां स्थूणाद्युपरिस्थितानां पटादीनां वा धारकपुरुषप्रयत्नं विनापि केवलेन धारकाधिष्ठानेन गुरुख सत्यपि अपातस्य दर्शनात् तद्धारकाणां स्तम्भादीनामचैतन्येन प्रयत्नाभावात् तथा च अनैकान्तिको हेतुः, किं च धारकस्येश्वरस्य प्रयत्नो नित्यश्चेत् तदा तदधिष्ठानान्नभसि क्षिप्तानां वाणादीनां पातो न स्यात् , ईश्वरप्रयत्नस्य व्यापकलेन तत्रापि भावात् , अथ केवलेश्वरनिर्मितानां पदार्थानां तत्प्रयत्नादपातो वाणादीनां तु उभयनिर्मितखेन क्षेपकप्रयत्नजन्यवेगविनाशाद् भवत्येव पात इति चेत्, एवं तर्हि भवदाशयेन केवलेश्वरनिर्मितानां भूधरभूरुहादीनां नित्यतत्प्रयत्नाधिष्ठानात् प्रबलपवनादिविधूननेनापि आप्रलयं पातो न भवेत् , न चैवमस्ति, अनित्यश्चेत् तर्हि ज्योतिर्विमानादीनामपि तद्विनाशेन महाप्रलयादयंगपि पातप्रसङ्गः, अपसिद्धान्तश्च, खया तनित्यता स्वीकारात् , तस्मात्साक्षाच्छरीरस्यैव तद्द्वारातत्संयुक्तानां घटादी- | ॥१५॥ नामपि प्रयत्नेन धारणं नतु क्षित्यादीनां, तेषां हि अदृष्टादिकारणकलापादेव तत्स्वाभाव्याद्धारणोपपत्तेः, किं तदर्थमीश्वरप्रयत्नकल्पनया, अत्र च प्रयोगे परम्परेति नाभिधातव्यम् ईश्वरप्रयत्नेन सर्वस्यापि साक्षादधिष्ठानाभ्युपगमेन तदभिधानेऽपसिद्धान्ता
For Private and Personal Use Only