________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयश्चेत्तर्हि ताभ्यामेव कार्यबहेतोर्व्यभिचारात् न ततः क्षित्यादिकर्तृसिद्धिः, तसान क्रमेण करणं । नापि यौगपद्यन एकदैव सकलकार्यकरणे क्षणान्तरे कर्त्तव्याभावात् , अकर्तृकवप्रसङ्गात् तथा च तज्ज्ञानादीनां वैफल्यापत्तिः, अपि च नित्यत्वाभ्युपगमे इच्छाप्रयत्न विषयनिरूपणार्थ ज्ञानस्योपयोगोऽपि नोपपद्यते असदादिज्ञानादीनां ह्यनित्यखेन क्रमभावित्वेन च ज्ञानविषयीकृते जलादौ इच्छा, तद्विषयीकृते च तसिन् प्रयत्नस्ततः शरीरपरिस्पन्दादिक्रमेण तदवाप्तिरिति यथोत्तरं कार्यकारणभावात् उपयोगः | संगच्छते, क्षित्यादिकज्ञानादीनां तु नित्यतया युगपद् भाविलेन कार्यकारणभावाभावात् न तदर्थं तेषामुपयोगसंभवः, तथा च तेषामनित्यखमभ्युपेतव्यम्, अनित्यपदार्थानां च भवन्मते कारणत्रयं विना नोत्पादः,तथाहि अस्सदादिज्ञानादीनामात्मा समवायिकारणम् ,आत्ममनःसंयोगोऽसमवायिकारणं, शरीरादिकं च निमित्तकारणं न च क्षित्यादिकर्तुर्ज्ञानादीनां समवायिकारणमात्रसंभवेऽपि इतरयोःसंभवोऽनभ्युपगमात् ,तथा च तेषामनित्यखाभ्युपगमे कारणत्रयसामय्यभावेन उत्पादाभावादभाव एव तत्र पर्यवस्येत् ,तस्मात् | तस्य ज्ञानादित्रयमिच्छता शरीरमपि अवश्यमेषणीयं, सकललोकातिशायिखात् ज्ञानादयस्तस्य कारणत्रयं विनापि भविष्यन्तीति
चेत्, न, किक्षित्यादेरपि कार्यस्य तेन तथैव करणप्रसङ्गात् लोकोत्तरतायास्तस्य सर्वत्राव्याहतखात् तसादसादादिवत् शरीरादि-18 चतुष्टयशालिन एव तस्यापि कर्तृवमङ्गीकर्त्तव्यं, तथाच तादृशस्तस्य ग्रहणयोग्यस्यापि अग्रहणेन क्षित्यादेरकर्तृकखावसायाद् भवति प्रत्यक्षबाधितविषयोऽयं हेतुः, तथाच प्रत्यक्षबाधितखादस्य नानुमानबाधावकाश इति नेह तद्व्यवस्थापन, यदपि आगमस्य अनुकूलखान्न तेन बाध इत्युक्तं तदपि न, आगमप्रामाण्येहि ततः क्षित्यादिकर्तृसिद्धिस्तत्सिद्धौ च तत्कर्तृत्वेन आगमस्स प्रामाण्यमिति परस्पराश्रयप्रसङ्गाद्, आगमेन तद् बाधानुपपत्तेः, यदपि परेण प्रतिपक्षानुमानोपन्यासे शरीराजन्यखस्स असमर्थविषेशण
For Private and Personal Use Only