________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्तिः
॥१४॥
अथ समवायात् प्रागपि तस्य सत्त्वमभ्युपगम्यते? तर्हि किं समवायकल्पनया तमन्तरेणापि तस्य सत्त्वसिद्धेः, तद्वदवयविनोऽपि अवयवेषु खत एव अवस्थानप्रसक्तेश्च, न च सत्तासमवायात् पूर्वमवयवी न सत्रापि असन् सत्तासंबन्धात्तु सबिति व्यपदिश्यते इति वाच्यं, सहि सत्तासंबंधात् प्राग् कांचिदर्थक्रियां करोति न वा? करोति चेत् कथं न सन्, न चेत् कथं नासन् , अपि च सत्त्वाऽसवयोः परस्परविरुद्धखेन एकतरनिषेधस्य अन्यतरविधिनान्तरीयकत्वेन उभयनिषेधानुपपत्तेः, भवतु वा सत्तासमवायात् पदार्थानां सत्वं, समवायस्य पुनः कसात् सत्त्वं, समवायान्तरात् चेत् न, तदनभ्युपगमात्, अथ स्वरूपेणैव तस्य सत्त्वमिति चेत् , नन्वेवं पदार्थानामपि तेनैव सत्त्वमस्तु किं समवायेन, ननु यदि समवायस्य स्वरूपेणैव सत्त्वमेताबता सर्वपदार्थानामपि तथैव तदास्तामिति कथमेतदुच्यते, एवंहि कचित्पदार्थे कस्यचित् धर्मस्य दर्शनात् तदृष्टान्तेन सर्वेषामपि तदापादने जगद्वैचित्र्यविलोपः स्यात् , नहि शर्करायाः स्वत एव माधुर्ये शाल्योदनादीनामपि तत्संयोगं विनापि स्वत एव तदस्तु इति युज्यते, इति चेन्न, यदि हि जगति समवायस्य एकस्यैव खतः सचाभ्युपगमः स्यात्, तदा स्वीक्रियेतापि सत्तासम| वायात् तदन्यपदार्थानां सत्त्वं, न चैतदस्ति, यावता समवायवत् सामान्यस्य अन्त्यविशेषाणां च भवता स्वत एव तदंगीकारात्, न च दृष्टान्तेऽपि तर्हि माधुर्यस्य शर्करायामिव क्षीरादिष्वपि भावात् तत्सम्बन्धं विनापि शाल्योदनादिषु तत्प्रसङ्ग इति वाच्यं, शर्कराक्षीरादिमाधुर्यस्य माधुर्यमात्रेण साम्येऽपि अनुभवैकसंवेद्यावान्तरसामान्यभेदेन मिन्नजातीयत्वात् , तथा च पठ्यते-इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् , तथा च तन्माधुर्यस्य भिन्नजातीयत्वेनैव शाल्योदनादीनां तत्संयोगेन माधुर्यविशेषो न खत इत्यपि केनचित् वाचाटेन वक्तुं शक्त्वात् , इह तु समवायस्य स्वतः सत्त्वं द्रव्यादिपदार्थानां च सत्तासमवायात्
लि
॥१४॥
53
For Private and Personal Use Only