________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandie
MKOCTOCTOR
न च तदिष्टं तेषां नित्यनेन खयापि अकर्तृकताभ्युपगमात् , तथा च भागासिद्धो हेतुः, क्षित्यादिभागे सिद्धावपि परमाण्वादि-15 |मागे कार्यबस्थासिद्धेः, न तृतीयः, प्रसिद्धकर्तृकस्य घटादेरनादिखानुपपत्तेः, उपपत्तौ वाऽऽकाशादेरिव सकर्तृकखव्याघातात उभयोः परस्परविरोधात् , तथात्रापि अन्यशब्देन परमाण्वादीनामपि पक्षवाक्षेपेण सकर्तृकत्वसिद्ध्यापाताच, ननु न भवद्विकल्पितः प्रतिज्ञार्थो ममाभिमतः, किन्तु समाहारद्वन्द्वसमासाश्रयणाद् अनादि च परमाण्वादि प्रसिद्धकर्तृकं च घटादि तस्मा|दुमयसादपि अन्यद् भूभूधरादिसकर्तृकतया साध्यं विवक्षितं कार्यत्वेन हेतुना इति चेत्, तदयुक्तं, विकल्पानुपपत्तेः, तथाहि किमिदं कार्यत्वं किं प्रागसतः खकारणवृत्तित्वं कर्तृरूपकारकजन्यत्वं वा, तद्व्यतिरिक्तकारकजन्यत्वं वा, कृतिव्याप्यत्वं वा, कारणमात्राधीनत्वं वा, प्रागभावोपलक्षितखरूपत्वं वा, न प्रथमः, वृत्तिर्हि संयोगो वा स्यात् समवायो वा स्यात् , नाद्यः, अवयवावयविलक्षणयोः कार्यकारणयोः भवता संयोगानभ्युपगमात्, न द्वितीयः, तस्यानुपपत्तेः, तथाहि किमवयवेषु असतोऽवयविनः समवायः सतो वा, नाद्यः, अन्यतरसम्बन्धिनोऽसत्त्वेन तदनुपपत्तेः, उपपत्तौ वा शशविषाणस्यापि पटाघवयवेषु समवायप्रसङ्गात् , अथ तस्यात्यन्तासत्त्वेन न तेषु समवायः, पटादेस्तु उत्पत्त्यनन्तरं संभवेन तेषु समवाय उत्प|त्स्यते इति चेन्न, उपपद्यतां नामासौ किन्तु यावन्न पटाद्युत्पत्तिस्तावन तस्य सत्वं तदभावात्तु कथं तस्य तेषु समवायः, उत्पादेऽपि च सत्त्वसमवायात् प्राग् न तस्य सत्त्वं, न च समवायद्वयं भवता इष्यते, येन एकस्मात् सत्त्वमपरस्माच्च अवयवेषु तस्यावस्थानं स्यात् , न च उपजायमान एवासौ सत्त्वादिना संभत्स्यत इति वाच्यम् , उपजायमानस्यापि अनुपजातत्वेन |संबन्धायोग्यत्वात्, न द्वितीयः, सत्तासमवायात् प्राग् घटादेः सत्त्वस्यैव अनुपपत्तेः, समवायान्तराचेन्न, तस्याऽनभ्युपगमात् ,
For Private and Personal Use Only