SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥१४॥ ADSASSASSAGARMA अनवस्थापातात् , एवं च यथा लौकिकः कर्ता शरीरान्तरानपेक्ष एव स्वशरीरपरिस्पन्दाद्यर्थक्रियां करोति तथा पुरुषविशेषः बृद्दृचि कश्चित् सर्वातिशायिनित्यज्ञानादिमान् अशरीर्यपि सर्वकर्ता भविष्यति को दोषः, न च न सन्ति नित्यज्ञानादयोऽपि अनित्यानामेव तेषां सर्वत्र दर्शनादिति वाच्यम् , अदृष्टकार्थसमवायिनामेव तेषामनित्यत्वाभ्युपगमात् , अदृष्टैकार्थसमवायोपि तेषामस्त्येव अन्यथा मुक्तानामपि तत्प्रसङ्गादिति चेन्न, दोषवत्सु एव तेषामदृष्टैकार्थसमवायाङ्गीकारात्, निर्दोषे तु पुरुषविशेषे तेऽपि मविष्यन्ति अदृष्टैकार्थसमवायोऽपि न भविष्यति इति, ननु निर्दोषः पुरुषविशेषः किमादिमुक्तोऽनादिमुक्तो वा भवतोऽभिमतः, न प्रथमः, मुक्तानामपि नित्यज्ञानादिप्रसङ्गात् तथा च तेषामपि वित्यादिकर्तृत्वापत्तेः, अनेकतत्कर्तृत्वप्रसङ्गाच्च, न द्वितीयः, तदसिद्धेः नित्यज्ञानादिमतस्तापुरुषविशेषस्य केनचित् कचिदपि अनुपलम्भात् इति चेन्न, अनौपाधिकसामान्य व्याप्तिसहकृतपक्षधर्मताबलात् तत्सिद्धेः, तथा च न प्रतिपक्षानुमानावकाशः, एवं च सकलहेत्वाभासशङ्काविरहात् कार्यत्व| हेतोरनादिमुक्तक्षित्यादिकर्तृसिद्धिरिति, अत्रोच्यते यत्तावदुक्तमनादिप्रसिद्धकर्तृकादन्यत् सकर्तृकमित्यादि, तत्र किमनादेः। कालात् प्रकर्षेण क्लेशक्षयक्रममुक्तेतरपुरुषवैलक्षण्याद् अतिशयेन सिद्धो मुक्तो, यद्वाऽनादिरनादिमुक्तः प्रसिद्धश्च पुरणादिषु प्रतीतः स कर्त्ता यस्य क्षित्यादेस्तत्तथा, तमादन्यद् घटपटादिपदार्थजातं सकर्तृकमिति साध्यार्थ आयुष्मतो विविक्षितः, आहो अनादेः कालात् यत् प्रसिद्धकर्तृकं लोकप्रतीतकर्तृकं घटादि तस्मादन्यदिति, उत अनादि च तत् प्रसिद्धकर्तृकं च तस्मादन्यदिति ? न ॥१४॥ तावदायः, सिद्धसाधनात् घटादीनां कुलालादिकर्तृकत्वस्य असाकमपि सिद्धत्वात् , अप्रसिद्धविशेषणश्च पक्षः, अनादिप्रसिद्धपुरुषकर्तृकत्वस्य क्षित्यादेरद्यापि अप्रसिद्धः, न द्वितीयः, तदाहि परमाण्वात्माकाशादीनामपि सकर्तृकत्वसिद्धिप्रसङ्गात् , 461594%25646 For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy