SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पेधात् , ततश्च ज्ञानेच्छाप्रयत्नवानेव कर्ता शरीरस्य तु ज्ञानादिमात्रोपयोगान्नावश्यं तत्र प्रवेशः, तथा चाशरीरिणो ज्ञानादिमतः क्षित्यादिकर्तुरस्मदादिभिर्ग्रहीतुमशक्यत्वान्नात्र प्रत्यक्षबाधः । नाप्यनुमानवाधः, उपजीव्यानुमानाभावात् , नहि यथा| परमाणुः सावयवो मृतत्वादित्यादौ परमाणुरूपधर्मिंग्राहकेण उपजीव्यानुमानेन तन्निर्वयवत्वग्राहिणा सावयवत्वबाधाद् हेतो मिग्राहकप्रमाणबाधः, तथात्रापि उपजीव्यानुमानं किंचिदस्ति येन हेतोस्तेन बाधः स्यात् । आगमस्तु अत्र 'विश्वतश्चक्षुरित्या|दिरनुकूल एव । नापि सत्प्रतिपक्षः, प्रतिवलानुमानाभावात् , ननु विवादाध्यासितमकर्तृक शरीराजन्यत्वाद् अशक्यक्रियस्वाद्वा आकाशवद् इत्यस्ति प्रतिपक्षानुमानमिति चेन, आकाशस्य अजन्यत्वमात्रेणैव अकर्तृत्वसिद्धौ शरीराजन्यत्वस्य हेतो समर्थविशेषणत्वात् , तथा अशक्यक्रियत्वस्यापि अप्रयोजकत्वात् , तत्रापि अजन्यत्वेनैव आकाशस्य अकर्तृकत्वसिद्धेः, ननु &ाक्षित्यादि अकर्तृकं तद्व्यापकरहितत्वाद् गगनवत् , इत्यस्तु प्रतिबलानुमानमिति चेन्न, अथ किं कर्तव्यापकं यविरहात् क्षित्यादेरकर्तृकत्वं सिसाधयिषितं ? शरीरमिति चेत्, किं तस्य व्यापकत्वं, कर्तरि व्याप्येऽयोगव्यवच्छेदेन तस्य ' भावः, कर्तृतयाहि दृष्टान्तीकृते कुम्भकारादौ शरीरस्यायोगः कदाचिदपि नास्तीत्यर्थः, एतच्छरीरस्य कर्तृव्यापकत्वमिति चेन्न, कर्तुः शरीरसम्बन्धे कार्यबुद्धिमत्त्वस्य उपाधेर्भावात् , शरीरस्य तद्व्यापकत्वमसिद्धेः यो हि कार्यबुद्धिमान् कर्ता सशरीरी यथा कुलालादिः, प्रकृते तु पक्षधर्मताबलात् नित्यबुद्धिमानेव कर्त्ता साधयितुमिष्टः, स च शरीरं विनापि नित्यज्ञानेच्छाप्रयत्नबलात् दाक्षित्यादिकं करिष्यति को विरोधः, अथ कर्तुः शरीरमपेक्ष्यैव अर्थक्रियाकरणम् इत्येतत्कर्तृव्यापकत्वं शरीरस्य विवक्षित तदपि न, कर्तुर्बाह्यार्थक्रियासु शरीरापेक्षायामपि खशरीरचलनाद्यर्थक्रियां प्रति शरीरान्तरापेक्षानभ्युपगमात् अभ्युपगमे वा RECER- CA For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy