________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्त्वमिति विभागः कर्तुं न शक्यते, सदिति प्रत्ययहेतोः सत्त्वस्य सर्वत्रापि अविशेषात् , न च सामान्यादिषु सत्तासम्बन्धात् सत्त्वस्वीकारेऽनवस्थापात इति तत्र स्वत एव तत्स्वीकारो, द्रव्यादिषु तु सत्तासम्बन्धादिति वाच्यं, द्रव्यादीनां सत्तासम्बन्धात् सवाभ्युपगमे परस्पराश्रयप्रसङ्गात् , द्रव्यादीनां सत्त्वे तत्र सत्तासम्बन्धस्तत्सम्बन्धाच तेषां सत्त्वमिति, असति धर्मिणि धर्मसम्बन्धानुपपत्तेः, अथ सत्ताया नित्यत्वेन सर्वगतत्वेन च तत्सम्बद्धा एव द्रव्यादयो जायन्ते, अतो न परस्पराश्रयप्रसङ्ग इति चेन्न, तत्सम्बद्धा इति किं तादात्म्यका, उत तत्समवेता इति विवक्षितं, यद्याद्यस्तदाऽलं समवायेन तं विनापि सत्तातादात्म्येनैव द्रव्यादीनां सत्त्वसिद्धेः, तादात्म्ये च समवायायोगात् , अथ द्वितीयस्तदा जायमानानां तेषामद्याप्यसत्त्वेन धर्म्यमावात् तत्समवायानुपपत्तेः, तसात् सामान्यादिवद् द्रव्यादीनामपि खत एव सत्त्वमभ्युपेयं किं सत्तासमवायात् तेषां तत्कल्पनया, अपि चावयवावय विनोः किमसमवायिनोः समवायः समवायिनोवो ! नाद्यः, पटावयवघटावयविनोरपि समवायप्रसङ्गात् , न द्वितीयः, समवायकल्पना वैया , तद्विनापि तयोः प्रागेव समवायित्वसिद्धेः, अथ प्रत्यक्षप्रमाणवेद्यः समवायो न तत्र एवं विप्रतिपत्तिः कर्तुमुचिता, तत्रापि वा तत्करणे सर्वत्रानाश्वासप्रसङ्गादिति चेन्न, प्रत्यक्षेण किं सम्बन्धबुद्ध्या 2 वेद्यतेऽसौ, समवायबुद्ध्या, इह बुद्ध्या वा, न प्रथमः, संयुक्तयोरपि घटपटयोः समवेतौ इमौ इति प्रतीतिप्रसङ्गात्, सम्बन्धमात्रबुद्धेस्तत्रापि अविशेषात् , न द्वितीयः, एते तन्तवोऽयं पटोऽयं च तन्तुपटयोः समवाय इति बुद्धः प्रायेण कस्यचिदनुदयात् , न तृतीयः, इह तन्तुषु पटः, इह शाखायां वृक्ष इत्यादीह बुद्धोव, इह पटे तंतव इह वृक्षे शाखा इत्याद्याकाराया अपि इहबुद्ध्या आधाराधेयभाववैपरीत्येन समवायसिद्धिप्रसङ्गात्, न चैवमाकारा बुद्धिर्नास्तीति वक्तव्यम् , आगोपालाङ्गनं प्राय एवमाकाराया
SAESAROCCASSALMAANGAL
For Private and Personal Use Only