SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ५लि ॥१४॥ एव बुद्धरुत्पाददर्शनात् , भवतु एवमाकारापि बुद्धिर्यथा तथा नः समवायसिधा प्रयोजनमिति चेत्, न, एवमभ्युपगमे तन्त्वा बृहदाचा दीनां पटाद्यारभ्यत्वप्रसङ्गात् , अवयवावयविनोः समवायविचारेऽधिकरणबुद्धिगोचरस्यारम्भकत्वेन भवताऽभ्युपगमात् , मिथ्या इयमेवमाकारा बुद्धिरिति चेत्, कुतः पुनरस्या मिथ्यात्वमवसितम् , आधाराधेयभावव्यवस्थितानां तन्तुपटादीनां विप-12 येयप्रदर्शकत्वादिति चेत्, किं पुनराधारत्वं तन्त्वादीनां, पटाद्यारम्भकत्वमिति चेत्, न, नह्यारम्भकत्वमधिकरणलक्षणं पतनप्रतिबन्धकत्वस्यैव तल्लक्षणत्वेन प्रतिपादनात् , यदाह उदयनाचार्यो-धृतिहेतुरधिकरणमिति, धृतिश्च पतनप्रतिबन्धः, अन्यथा बदरादेरनारम्भकत्वेन कुण्डादेस्तदधिकरणत्वं न स्यात् , तसात् पतनप्रतिबन्धादेव कुण्डं बदरस्याधिकरणमुच्यते, तथेहापि यदि तन्त्वादयः पटादीनां पतनं प्रतिबनीयुस्तदा भवेत् तेषामधिकरणत्वं, न चैवमस्ति, तत्कस्य हेतोरेवंरूपस्य आधा-18 राधेयभावस्य कुण्डबदरादीनामिव अत्यन्तभेद एव व्यवस्थापनात्, तन्तुपटादीनां तदभावात् , तसात् त्वदभ्युपगमेन आरम्भकत्वेऽपि न तत्त्वतस्तन्त्वादीनामाधारत्वं, तदभावाच्च नाधाराधेयभावविपर्ययप्रदर्शनेन पटे तन्तव इत्यादिबुद्धेमिथ्यात्वं, तथात्वे च लोकप्रतीतिविरोधेन तन्तुषु पट इत्यादिबुद्धेरपि भवदभिमताया मिथ्यात्वप्रसङ्गात् , तस्मान्न तन्तुषु पट इत्यादीहबुद्धा वेद्यते समवायः, तथात्वे वा पटे तन्तव इत्यादिबुद्ध्यापि वेद्येत, किं च इह तन्तुषु पट इतिबुद्धेराधाराधेयरूपत्वेन न | ततः समवायसिद्धियुक्ता, अन्याकारयापि बुझ्छा अन्यस्य सिद्धिकल्पने घटबुद्ध्यापि पटसिद्धिकल्पनापत्तेः, अपि च इहबुद्ध्या ॥१४॥ समवायस्य वेद्यत्वाभ्युपगमे संयोगस्यापि समवायतापत्तिः, इहबुद्धिवेद्यतायास्तत्रापि अविशेषात् , किं च यथाऽवयवावयविनोर्भवता समवाय इष्यते, तथा गुणगुण्यादेरपि तथा च तस्य प्रत्यक्षवेद्यत्वेऽयं पटोऽयं च शुक्लो गुणोऽयं चानयोः सम For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy