SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AMARUGGLOG वाय इति भेदेनैव प्रतिपत्तिर्भवेत् , नतु शुक्लः पट इत्यादिरूपेण, तादात्म्येनापि प्रत्यक्षेण, तथैव तस्य त्वन्मते निश्चयात् , भवतु वासमवायस्तथापि असौ स्वरूपसत्त्वात् स्वत एव यथा समवायिनोः संबध्यते, तथा सामान्यमन्त्यविशेषाश्च, खरूपसच्चविशेषात् । स्वाश्रयेषु स्वत एव संभत्स्यन्ते, किं तेषां खाश्रयवृत्तौ समवायकल्पनेन, तथा च पश्चानां द्रव्यादिपदार्थानां वृत्तिः समवाय | इत्ययुक्तमुक्तं वैशेषिकैः, प्रागसत इति च विशेषणे कारणसमवायात् , प्रागविद्यमानस्य इत्यर्थो विवक्षितस्तथा च कारणसमवाये सति सत्त्वं कार्यत्वमिति तात्पयोः स्यात्, न च कारणसमवायादन्यत् सत्वं, कारणसमवायस्यैव त्वया सत्त्वेनाभ्युपगमात्, एवं च कारणसमवायः कारणसमवायमेव आश्रयत इत्यात्माश्रयप्रसङ्गात् , प्रागसत इति विशेषणस्यापि अनुपपत्तिः, तमान प्रागसतः स्वकारणवृत्तित्वकार्यत्वं संगच्छत इत्यसिद्धो हेतुः, नापि द्वितीयः, हेतोः साध्यविशिष्टत्वप्रसङ्गात् कर्तृरूपकारकजन्यत्वस्य साध्या सकतकत्वाविशेषात् , न तृतीयः किं कर्तृव्यतिरिक्तैरेव कारकैर्जन्यत्वमितिहेत्वर्थोऽभिमत उत कर्तृव्यतिरि|क्तैरपीति, नाद्यः, हेत्वर्थेन प्रतिज्ञार्थस्य बाधात् , प्रतिज्ञाविरोधनिग्रहस्थानापत्तेः, सिद्धसाधनं च भवदभिमतकर्तृव्यतिरिक्तैरेवतैर्भूभूधरादेर्जन्यत्वस्य अस्माभिरपि स्वीकारात्, साधनविकलश्च दृष्टान्तः, कर्टकुलालादिप्रयुक्तैरेव कारणकर्मादिकारकैर्घटादिनिष्पत्तिदर्शनात् , न च कर्तृव्यतिरिक्तैरेव कारकैर्जन्यत्वं कार्यखमिष्यते भवता, कर्वप्रयुक्तानामेव इतरकारकाणां प्रवृत्त्यभ्युपगमात् तथा चापसिद्धान्तोऽपि, न द्वितीयः, क्षित्यादिकर्तृसिद्धिं विना कर्तृव्यतिरिक्तैरपि इति वक्तुमनुचितत्वात् , अपिशब्देन कर्तुरपि आक्षेपात् तथा च तत्कर्तृसिद्धौ कर्तव्यतिरिक्तैरपि इत्यादिहेत्वर्थसिद्धिस्तत्सिद्धौ च तत्कर्टसिद्धिरित्यन्योन्याश्रयापत्तेः, न चतुर्थः, असदादिप्रयत्नस्य क्षित्यादिकरणासामर्थेन तद्व्याप्यत्वस्य तावत्तत्रासिद्धेः, भवदभिमतस्य च कर्तुरद्याप्यसिद्धत्वेन तत्प्रयत्न For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy