________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
पंचलिंगी
बृहद्वृत्तिः
Imr
॥१४३॥
CAMERASA
व्याप्यत्वस्यापि असिद्धेः, तथा चात्रापि असिद्धो हेतुः, न पश्चमः, सुषुप्तावस्थायां श्वासप्रश्वासादिसन्तानस्य जागरेऽपि अशितपीतरसादे ब्यादिसंचारस्य कारणाधीनत्वेऽपि भवदभिप्रायेण सकर्तृत्वानुपपत्तेः, ज्ञानेच्छादिशालिनो द्यात्मनः कर्तृत्वाङ्गीकारात् तदानीं चासदाद्यात्मनां तदभावात् , न च तदानीमसदादिकर्तृकखासंभवात् तस्यापि पक्षनिक्षेप इति वाच्यं, जागरेऽपि श्वासादरुपादानादिज्ञानाद्यभावेन असदाधकर्तृकत्वापत्या पक्षनिक्षेपप्रसङ्गात् , प्रसज्जतामितिचेत्, न, श्वासादेरासंसारमात्मावि नाभावितया उपादानज्ञानाद्यभावेऽपि उभयोरपि अवस्थयोरस्मदादिकर्तृकखानुमाने वस्तुतस्तदनिक्षेपात् , अन्यथा आत्मनान्तरीयकाणां ज्ञानेच्छादीनामपि अस्मदाद्यकर्तृकत्वापातात् , अत एव भवतामपि प्राणादिमत्त्वात् जीवच्छरीरस्य सात्मकत्वानुमानं, किंतु भवन्नीत्या सुषुप्तादेःश्वासादिना अनैकान्तिकः प्रकृतो हेतुः, न षष्ठः, कारणव्यापारात् प्राग सर्वथाऽसतः कार्यस्य स्वरूपलाभायोगात्, योगे वा वाजिविषाणादेरपि तल्लाभप्रसङ्गात् , कारणव्यापार एव तत्र नास्तीति चेन्न, सर्वथाऽसत्वाविशेषे वाजिविषाणादाविव घटादावपि कारणव्यापारासंभवात् , इदमस्य कारणमिदं चास्य कार्यमित्यादिव्यवहारस्य कारणव्यापारात् प्रागपि कार्यस्य कारणेषु कथंचित्सत्त्वेनैव उपपत्तेः, तस्मादत्यन्तासत्वेन वाजिविषाणादौ कारणकार्यभावमनिच्छता घटादौ च | तमिच्छता कार्यस्य कारणैः सह सम्बन्धः प्रागपि कथंचिदभ्युपेयः, अन्यथा असम्बन्धाविशेषात् सर्व सर्वस्मात् जायेत, किं च शक्तिमतः कारणात् कार्यस्य निष्पत्तिः, साच तस्य शक्तिर्न सर्वकार्यविषया तथात्वेहि एकस्मादपि तन्त्वादिकारणात् पटघटा-16॥१४॥ दिकार्योत्पादप्रसङ्गात् , न चैवमस्ति, कारणशक्तिप्रतिनियमन कार्योत्पादप्रतिनियमदर्शनात् शक्तिप्रतिनियमस्य च कारणे कार्यस्य कथंचित् सत्त्वं विनानुपपत्तेः, उपादानकारणस्य च तादृग्सामग्रीमध्यासीनस्य कार्यत्वेन परिणामदर्शनादपि कारणे कार्यस्य ।।
C
A
For Private and Personal Use Only