________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ASSESSO
सत्त्वमवसीयते, इतरथा उपादानकारणे सर्वथाऽसतः कार्यस्योत्पादे तुरिवेमादिभ्य इव तन्तुभ्योऽपि पटस्य पृथग देशवापत्तेः, तसात् कारणे कार्य शक्तिप्रतिनियतविषयतया सत् , अभिव्यक्तिरूपेण बाऽसद् इत्यभ्युपगन्तव्यम् , अन्यथा तस्य खरूपलाभासंभवात् , तथा च प्रागभावोपलक्षितस्वरूपखलक्षणस्यापि कार्यत्वस्यासिद्धरसिद्धो हेतुः, योऽपि भूभूधारादेः कार्यखसिद्धये सावयवत्वहेतुरुपन्यस्तस्तत्रापि सावयवत्वं किं कारणमात्रजन्यत्वं, द्रव्यस्य द्रव्यान्तरवृत्तित्वं वा, भागवत्वं वा? न प्रथमः, साध्यसाधनयोरभिन्नार्थतया हेतोः साध्यविशिष्टत्वापातात्, न द्वितीयः, वृत्तिर्हि संयोगो वा स्यात् समवायो वा स्यात, नाद्यः, तदाहि पटस्य तुरिवेमादिभिर्निमित्तकारणैः संयोगिभिः सावयवत्वं स्यात्, न तन्तुभिस्तेषां समवायिकारणत्वेन तैः सह संयो| गानङ्गीकारात्, न द्वितीयः, समवायनिराकरणेन तस्य निरासात्, न तृतीयः, आत्मनोऽपि कार्यत्वप्रसङ्गात , न च आत्मनो |भागा न सन्तीति वाच्यं? शरीरावच्छिन्नस्य ह्यात्मनः सुखदुःखयोवृत्तिलाम इष्यते, यदि च तस्य भागा न भवेयुस्तदा शिरसि मे वेदना पादे मे सुखमित्यादिविभागेन सुखदुःखप्रतीत्युदयो न स्यात् , आत्मनो निर्विभागत्वेन शिरःपादादिशरीर-15 भागावच्छेदेन सुखदुःखोत्पादानुपपत्तेः, केवलं सर्वस्मिन्नेव शरीरे सुखस्यैव दुःखस्यैव वा संवेदनमुदयात् , न चैवमस्ति तस्मात् प्रागुक्तप्रतीत्यन्यथानुपपत्त्या अस्ति आत्मनो भागवत्त्वं, तथा च तस्यापि कार्यत्वप्रसङ्गः, एवं च न सावयवत्वेन क्षित्यादेः कार्यत्वसिद्धिः, यद्यपि कर्मभिः सिद्धसादनापादने तेषामचेतनत्वेन कर्तृत्वायोगात् तदपाकरणं तदपि न युक्तंसशरीरतत्फल|भोक्तृचेतनाधिष्ठितानामचेतनानामपि कर्मणामचिन्त्यमहिम्ना तत्तदुपादाननिमित्तकारणादिसमवधानेन क्षित्यादेः कार्यस्य संभवात् , तथा च तेषां तत्कर्तृत्वसिद्ध्या सिद्धसाध्यतापादनस्योपपत्तिः, असंबद्धानां तेषां कथं तदुपादानादिसमवधानहेतु
HAKHABAR
RS
For Private and Personal Use Only