SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पचलिंगी त्वम् इति चेन्न, असंबद्धस्यापि तादृगंजनतिलकादेः कामिन्याद्याकर्षणहेतुत्वदर्शनात् भवतापि च देवदत्तगुणाकृष्टाः पश्वा बृहद्वृत्तिः दयो देवदत्तमुपसर्पन्ति इत्याद्यनुमानेन शरीरावच्छिन्नात्मसमवेतस्य अदृष्टाख्यस्य देवदत्तगुणस्य पश्वादिभिरसंबद्धस्यापि तदा॥१४॥ |कर्षणं प्रति कर्तृत्वप्रसाधनात्, न च आत्मनः सर्वगतत्वेन शरीरानवच्छेदेनापि अदृष्टसमवायात् तत्सम्बन्धन पश्वाद्याकर्षणं भविष्यतीति वाच्यम् , आत्मविशेषगुणानां शरीरावच्छेदेनैव वृत्तिलाभोपलम्मात् , अन्यथा बहिरपि सुखदुःखानुभवप्रससङ्गात् इत्युक्तखात् , तस्माद् भवताऽपि असम्बद्धस्यैव अदृष्टस्य पश्वाद्याकर्षकत्वमिति, न चायं नियमो यत् का चेतनेनैव भवि-2 तव्यम् अग्निदहतीत्यादौ अचेतनस्यापि अग्नेः कर्तृव्यवहारदर्शनाद्, औपचारिकमस्य कर्तृत्वमिति चेन्न, अग्निर्माणवक इत्यादी हि तापकत्वादिना अग्निसाधर्मेण अनग्नावपि माणवकेऽग्निशब्दप्रयोग औपचारिक इति युक्तम् , अग्नौ मुख्यतापकत्वादिसंभवे माणवकादौ उपचारप्रवृत्तेः, अग्निर्दहति इत्यादौ तु अग्निं विना कस्य मुख्यदाहकर्तृत्वम् उपलब्धं यत् साधर्म्यणानौ तदुषचर्येत, अग्ना वेव खातव्येण तत्कर्तृत्वोपलब्धेः, ननु तत्रापि अग्निना दहति चैत्र इति चैत्रस्यैव कर्तृत्वमग्नेस्तु करणखमनायासेनैव तु दाहसिद्ध्याऽग्नेः है कर्तृत्वविवक्षेति चेत् , यत्र तर्हि पुरुषव्यापारनिरपेक्षतयैव तरुशाखाघर्षणादुत्थितोऽग्निर्वनं दहति तत्र का गतिः, तस्मात्स्वतत्रः कर्ता इति कर्तृत्वलक्षणस्योपपत्तेरचेतनस्यापि अग्नेः सिध्यति कर्तृत्वं, न च स्वातत्र्यमसिद्धं, कारकान्तराप्रयोज्यत्वलक्षणस्य तस्य इहापि सिद्धेः, तदनभ्युपगमे च खभावहानौ तस्यापि अभावप्रसङ्गात् , एवमन्यत्रापि अचेतनस्य यथा संभवं कर्तृत्वमूलं, स्वव्यापारे चाचे- ॥१४४॥ तनानामपि कर्तृतस्य वैयाकरणैरपि स्वव्यापारे हि कर्तृत्वं सर्वत्रैवाऽस्ति कारक इत्यादिनाऽभ्युपगमात् , यद्वा कर्मणां प्राधान्यताख्यापनार्थ कर्मभिरित्युक्तं, वस्तुतस्तु कर्मसहकृतानां सर्वजीवानामेव क्षित्यादिकर्तृत्वसिद्ध्याऽस्माभिरपि चेतनस्यैव तत्कर्तृत्वमङ्गीकारात् 27%AAGAARAA kuCALCOCCALCANADA For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy