Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
View full book text ________________ देवेन्द्रसूरिविरचितः स्वोपज्ञटीकोपेतः [गाथा: ष्टत्वं प्रदेशोत्कर्षस्तमुत्कृष्टप्रदेशमिति यावत् / इह संज्ञीति विशेष्यम् , शेषाणि तु विशेषणानि / अत्र च यो मनःपूर्विकां क्रियां विदधाति तस्य सर्वजीवेभ्य उत्कृष्टा चेष्टा भवति, तथैव चोत्कृ- . ष्टप्रदेशबन्धो भवतीति संज्ञिग्रहणम् / संश्यपि जघन्ययोग्युत्कृष्टयोगी च भवत्यतो जघन्ययोगिव्युदासार्थमुत्कृष्टयोगिग्रहणम् , तस्यैवोत्कृष्टप्रदेशबन्धात् / संश्यप्यपर्याप्तको नोत्कृष्टप्रदेशबन्धं विधातुमलमल्पवीर्यत्वात् तस्येति पर्याप्तग्रहणम् / एवंविधस्यापि बहुतरप्रकृतिबन्धकस्य भागबाहुल्यात् स्तोकप्रदेशबन्धो लभ्यते इत्यल्पतरप्रकृतिबन्धीत्युक्तम् / तस्मादेवंविधविशेषणविशिष्टो जन्तुरुत्कृष्टं प्रदेशबन्धं विधत्ते इति / तर्हि जघन्यं प्रदेशबन्धं कथं करोति ? इत्याह- "जहनयं तस्स वच्चासे" त्ति जघन्य एव जघन्यकः, “यावादिभ्यः" ( सिद्ध० 7-3-15) इति स्वार्थे कः प्रत्ययः, तं जघन्यकं प्रदेशबन्धमिति प्रक्रमः / 'तस्य' पूर्वप्रदर्शितस्य विशेष्यस्य विशेषणकलापस्य च 'व्यत्यासे' विपर्यये सति जन्तुः करोतीति योगः / अयमर्थः-बहुतरप्रकृतिबन्धको मन्दयोगोऽपर्याप्तकोऽसंज्ञी जीवो जघन्यं प्रदेशबन्धं विदधातीति // 89 // .... अभिहितः सामान्येनोत्कृष्ट-जघन्यप्रदेशबन्धस्वामी / सम्प्रति मूलप्रकृतीरुत्तरप्रकृतीश्च प्रतीत्य उत्कृष्टप्रदेशबन्धस्वामिनं निरूपयन्नाह मिच्छ अजयचउ आऊ, बितिगुण विणु मोहि सत्त मिच्छाई। छण्हं सतरस सुहुमो, अजया देसा बितिकसाए // 9 // __" आउ" ति आयुष उत्कृष्टप्रदेशबन्धस्वामिनः पञ्च, तद्यथा-"मिच्छ" ति मिथ्या दृष्टिः "अजयचउ" ति अयतेन-अविरतसम्यग्दृष्टिना उपलक्षिताश्चत्वारः-अविरतसम्यग्दृष्टि-देशविरत-प्रमत्ता-प्रमत्तलक्षणाः पञ्चैव जनाः " अप्पयरपयडिबंधी " ( गा० 89 ) इत्यादिमणितगाथासम्भवद्विशेषणविशिष्टा आयुष उत्कृष्टप्रदेशबन्धमुपकल्पयन्ति / सम्यग्मिथ्यादृष्टिरपूर्वकरणादयश्चायुर्न बध्नन्तीति नेह गृहीताः / सास्वादनस्तायुर्बध्नात्येव स किमिति न गृहीतः ? इति चेद् उच्यते-तत्रोत्कृष्टप्रदेशनिबन्धनोत्कृष्टयोगाभावात् / तथाहि-अनन्तानुबन्धिनामुत्कृष्टोऽनुत्कृष्टश्च प्रदेशबन्धो मिथ्यादृष्टौ साद्यध्रुव एव भणिष्यते, यदि तु सास्वादनेऽप्युत्कृष्टयोगो लभ्यते तदाऽसावप्यनन्तानुबन्धिनो बध्नात्येव, अतो यथाऽविरतादिष्वप्रत्याख्यानावरणादिप्रकृतीनामुत्कृष्टप्रदेशबन्धसद्भावतोऽनुत्कृष्टः प्रदेशबन्धः साद्यादिचतुर्विकल्पोऽप्यभिधास्यते तथैवानन्तानुबन्धिनां मिथ्यात्वभागलाभात् सास्वादने उत्कृष्टप्रदेशबन्धसद्भावतोऽनुत्कृष्टः प्रदेशबन्धः साद्यादिचतुर्विकल्पोऽपि स्यात् , न चैवं निर्दि(दें)क्ष्यते, तस्माद् ज्ञायतेऽल्पकालभावित्वेन ताविधप्रयत्नाभावादन्यतो वा कुतश्चित्कारणात् सास्वादनस्योत्कृष्टयोगो नास्ति / किञ्च अनन्त मेवोत्तरप्रकृतिस्वामित्वे मतिज्ञानावरणादिप्रकृतीनां प्रत्येकं सूक्ष्मसम्परायादिषूत्कृष्टं प्रदेशबन्धमभिधाय भणितशेषप्रकृतीनां मिथ्याइष्टिमेवोत्कृष्टप्रदेशबन्धस्वामिनं निर्देश्यति न सास्वादनम् , यद् वक्ष्यति-" सेसा उक्कोसपएसगा मिच्छो " ( गा० 92 ) / बृहच्छतकेऽप्युक्तं .. सेसपएसुक्कडं मिच्छो // ( गा० 96 ) इति / ____ अतोऽपि ज्ञायते 'नास्ति सास्वादनस्योत्कृष्टयोगसम्भवः' / अतो ये सास्वादनमप्यायुष उत्कृष्टप्रदेशबन्धस्वामिनमिच्छन्ति तन्मतमुपेक्षणीयमिति स्थितम् /
Loading... Page Navigation 1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334