Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 250
________________ 26] . चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 185 अनुदिते उद्योतनामि तूदिते एकोनत्रिंशद् भवति, अत्रापि प्रागिवैक एव भङ्गः / सर्वसङ्ख्यया एकोनत्रिंशति भङ्गा नव / सुस्वरसहितायामेकोनत्रिंशति संयतानामुद्योतनाम्नि प्रक्षिप्ते त्रिंशद् भवति, अत्रापि प्रागिवैक एव भङ्गः / सर्वसङ्ख्यया वैक्रियमनुष्याणां भङ्गाः पञ्चत्रिंशत् 35 / आहारकसंयतानामुदयस्थानानि पञ्च, तद्यथा-पञ्चविंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशत् / तत्राहारकम् आहारकाङ्गोपाङ्गं समचतुरस्रसंस्थानम् उपघातं प्रत्येकमिति पञ्च प्रकृतयः प्रागुक्तायां मनुष्यगतिप्रायोग्यायामेकविंशती प्रक्षिप्यन्ते मनुष्यानुपूर्वी चापनीयते ततो जाता पञ्चविंशतिः, केवलमिह पदानि सर्वाण्यपि प्रशस्तान्येव भवन्ति, आहारकसंयतानां दुर्भगा-ऽनादेया-ऽयशःकीर्युदयाभावात् , अत एक एवात्र भङ्गः / ततः शरीरपर्यास्या पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च प्रक्षिप्तायां सप्तविंशतिः, अत्राप्येक एव भङ्गः / ततः प्राणापानपर्यास्या पर्याप्तस्य उच्छासे प्रक्षिप्तेऽष्टाविंशतिर्भवति, अत्राप्येक एव भङ्गः / अथवा शरीरपर्यात्या पर्याप्तस्य उच्छासेऽनुदिते उद्योतनाम्नि तूदिते अष्टाविंशतिर्भवति, अत्राप्येक एवं भगः / सर्वसया अष्टाविंशतौ द्वौ भङ्गौ / ततो भाषापर्याप्त्या पर्याप्तस्य उच्छ्वाससहितायामष्टाविंशतौ सुस्वरे प्रक्षिप्ते एकोनत्रिंशद् भवति, अत्राप्येक एव भङ्गः / अथवा प्राणापानपर्याप्स्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते एकोनत्रिंशत् , अत्राप्येक एव भङ्गः / सर्वसङ्ख्यया एकोनविंशति द्वौ भनौ / ततो भाषापर्याप्त्या पर्याप्तस्यै. स्वरसहितायामेकोनत्रिंशति उद्योते प्रक्षिप्से त्रिंशद् भवति, अत्राप्येक एव भङ्गः / सर्वसङ्ख्यया आहारकशरीरिणां सप्त भङ्गाः / ... केवलिनामुदयस्थानानि दश, तद्यथा-विंशतिः एकविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशद् नव अष्टौ च / तत्र मनुष्यगतिः पञ्चेन्द्रियजातिः त्रसनाम बादरनाम पर्याप्तकं सुभगम् आदेयं यशःकीर्तिरित्येता अष्टौ ध्रुवोदयाभिर्द्वादशसङ्ख्याभिः सह विंशतिः, अत्रैको भगः / एषा चातीर्थकरकेवलिनः समुद्धातगतस्य कार्मणकाययोगे वर्तमानस्य वेदितव्या / सैव विंशतिस्तीर्थकरनामसहिता एकविंशतिः, अत्राप्येको भङ्गः / एषा च तीर्थकरकेवलिनः समुद्धातगतस्य कार्मणकाययोगे वर्तमानस्य वेदितव्या / तथा तस्यामेव विंशतावौदारिकशरीरं षण्णां संस्थानानामेकतमत् संस्थानम् औदारिकाङ्गोपाङ्गं वज्रर्षभनाराचसंहननम् उपघातं प्रत्येकमिति षट् प्रकृतयः प्रक्षिप्यन्ते ततः षड्विंशतिर्भवति, एषा चातीर्थकरकेवलिन औदारिकमिश्रकाययोगे वर्तमानस्य वेदितव्या, अत्र षड्भिः संस्थानः षड् भङ्गा भवन्ति परं ते सामान्यमनुष्योदयस्थानेष्वपि सम्भवन्तीति न पृथग् गण्यन्ते / एषैव पड्विंशतिः तीर्थकरसहिता सप्तविंशतिर्भवति, एषा तीर्थकरकेवलिन औदारिकमिश्रकाययोगे वर्तमानस्यावसेया, अत्र संस्थानं समचतुरस्रमेव वक्तव्यम् , तत एक एवात्र भङ्गः / सैव षड्विंशतिः पराघात-उच्छ्वास-प्रशस्ता-प्रशस्तविहायोगत्यन्यतरविहायोगति-सुस्वर-दुःस्वरान्यतरस्वरसहिता त्रिंशद् भवति, एषा चातीर्थकरस्य सयोगिकेवलिन औदारिककाययोगे वर्तमानस्याव 1 सं० सं० 1 त० म० छा० °स्य सुस्व' / 24

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334