Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 289
________________ 224 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथा: ____तथा मिथ्यादृष्टेर्नव उदयस्थानानि, तद्यथा-एकविंशतिः चतुर्विंशतिः पञ्चविंशतिः षड़िशतिः सप्तविंशतिः अष्टाविंशतिः एकोनत्रिंशत् त्रिंशद् एकत्रिंशत् / एतानि सर्वाण्यपि नानाजी. वापेक्षया यथा प्राक् सप्रपञ्चमुक्तानि तथाऽत्रापि वक्तव्यानि, केवलमाहारकसंयतानां वैक्रियसंयतानां केवलिनां च सम्बन्धीनि न वक्तव्यानि, तेषां मिथ्यादृष्टित्वाभावात् / सर्वसामया मिथ्यादृष्टावुदयस्थानभन्नाः सप्त सहस्राणि सप्त शतानि त्रिसप्तत्यधिकानि 7773 / तथाहि-एकविंशत्युदये एकचत्वारिंशत्-तत्रैकेन्द्रियाणां पञ्च, विकलेन्द्रियाणां नव, तिर्यक्पञ्चेन्द्रियाणां नव, मनुष्याणां नव, देवानामष्टौ, नारकाणामेकः / तथा चतुर्विंशत्युदये एकादश, ते चैकेन्द्रियाणामेव, अन्यत्र चतुर्विंशत्युदयस्याभावात् / पञ्चविंशत्युदये द्वात्रिंशत्-तत्रैकेन्द्रियाणां सप्त, वैक्रियतिर्यक्पञ्चेन्द्रियाणामष्टौ, वैक्रियमनुष्याणामष्टौ, देवानामष्टौ, नारकाणामेकः / षड्रिंशत्युदये षद् शतानि ६००-तत्रैकेन्द्रियाणां त्रयोदश, विकलेन्द्रियाणां नव, तिर्यक्पञ्चेन्द्रियाणां द्वे शते एकोननवत्यधिके 289, मनुष्याणामपि द्वे शते एकोननवत्यधिके 289 / सप्तविंशत्युदये एकत्रिंशत्-तत्रैकेन्द्रियाणां षट् , वैक्रियतिर्यक्पञ्चेन्द्रियाणामष्टौ, वैक्रियमनुष्याणामष्टौ, देवानामष्टौ नारकाणामेकः / अष्टाविंशत्युदये एकादश शतानि नवनवत्यधिकानि ११९९-तत्र विकलेन्द्रियाणां षट् , तिर्यक्पञ्चेन्द्रियाणां पञ्च शतानि षट्सप्तत्यधिकानि 576, वैक्रियतिर्यक्पञ्चेन्द्रियाणां षोडश, मनुष्याणां पञ्च शतानि षट्सप्तत्यधिकानि 576, वैक्रियमनुष्याणामष्टौ, देवानां षोडश, नारकाणामेकः / एकोनत्रिंशदुदये सप्तदश शतान्येकाशीत्यधिकानि १७८१-तत्र विकलेन्द्रियाणां द्वादश, तिर्यक्पञ्चेन्द्रियाणामेकादश शतानि द्विपञ्चाशदधिकानि 1152, वैक्रियतिर्यक्पञ्चेन्द्रियाणां षोडश, मनुष्याणां पञ्च शतानि षट्सप्तत्यधिकानि 576, वैक्रियमनुष्याणामष्टो, देवानां षोडश, नारकाणामेकः / त्रिंशदुदये एकोनत्रिंशच्छतानि चतुर्दशाधिकानि 2914 -तत्र विकलेन्द्रियाणामष्टादश, तिर्यक्पञ्चेन्द्रियाणां सप्तदश शतान्यष्टाविंशत्यधिकानि 1728, वैक्रियतिर्यक्पञ्चेन्द्रियाणामष्टौ, मनुष्याणामेकादश शतानि द्विपञ्चाशदधिकानि 1152, देवानामष्टौ / एकत्रिंशदुदये एकादश शतानि चतुःषष्यधिकानि ११६४-तत्र विकलेन्द्रियाणां द्वादश, तिर्यक्पञ्चेन्द्रियाणामेकादश शतानि द्विपञ्चाशदधिकानि 1152 / सर्वसमाया सप्त सहस्राणि सप्त शतानि त्रिसप्तत्यधिकानि 7773 / मिथ्यादृष्टेः षट् सत्तास्थानानि, तद्यथा-द्विनवतिः एकोननवतिः अष्टाशीतिः षडशीतिः अशीतिः अष्टसप्ततिः / तत्र द्विनवतिः चतुर्गतिकानामपि मिथ्यादृष्टीनामवसेया / यदा पुनर्नरकेषु बद्धायुष्को वेदकसम्यग्दृष्टिः सन् तीर्थकरनाम बद्धा परिणामपरावर्तनेन मिथ्यात्वं गतो नरकेषु समुत्पद्यमानस्तदा तस्यैकोननवतिरन्तर्मुहूर्त कालं यावद् लभ्यते, उत्पत्तेरूद्धमन्तर्मुहर्तानन्तरं तु सोऽपि सम्यक्त्वं प्रतिपद्यते / अष्टाशीतिश्चतुर्गतिकानामपि मिथ्यादृष्टीनाम् / षडैशीतिरशीतिश्चैकेन्द्रियेषु यथायोगं देवगतिप्रायोग्ये नरकगतिप्रायोग्ये चोद्वलिते सति लभ्यते, एके 1 सं०१०म० °दये वर्तमानस्य ए° // 2 सं० 1 त० म० कलानां न॥ 3 सं० 1 त०म० हूर्तका // 4 सं० 1 त० म० शीतिरेकेन्द्रि // 5 सं 10 म० छा० ते / अशीतिस्व त्रिनवतेस्तीर्थकराहारकचतुष्टयादिषु त्रयोदशसु प्रकृतिषु उद्वलितासु लभ्यते एके /


Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334