Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 293
________________ 228 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं [गाथाः क्पञ्चेन्द्रियाणामष्टौ, मनुष्याणामप्यष्टौ, देवानामप्यष्टौ, सर्वसङ्ख्यया एकविंशत्युदये द्वात्रिंशत् / चतुर्विशत्युदय एकेन्द्रियेषु मध्ये उत्पन्नमात्रस्य, अत्रापि बादरपर्याप्तकेन सह यशःकीर्ति-अयशःकीर्तिभ्यां यौ द्वौ भनौ तावेव सम्भवतः, न शेषाः, सूक्ष्मेषु साधारणेषु तेजो-वायुषु च मध्ये सासादनस्योत्पादासम्भवात् / पञ्चविंशत्युदयो देवेषु मध्ये उत्पन्नमात्रस्य प्राप्यते न शेषस्य, तत्र चाष्टौ भङ्गाः, ते च स्थिरा-ऽस्थिर-शुभा-ऽशुभ-यशःकीर्ति-अयशःकीर्तिपदैरवसेयाः / षड्विंशत्युदयो विकलेन्द्रिय-तिर्यक्पञ्चेन्द्रिय-मनुष्येषु मध्ये उत्पन्नमात्रस्यावसेयः, अत्राप्यपर्याप्तकेन सह य एकैको भगः स न सम्भवति, अपर्याप्तकमध्ये सासादनस्योत्पादाभावात् , शेषास्तु सम्भवन्ति / ते च विकलेन्द्रियाणां प्रत्येकं द्वौ द्वाविति षट् , तिर्यक्पञ्चेन्द्रियाणां द्वे शते अष्टाशीत्यधिके 288, मनुष्याणामपि द्वे शते अष्टाशीत्यधिके 288, सर्वसङ्ख्यया षड्विंशत्युदये पञ्च शतानि व्यशीत्यधिकानि 582 / सप्तविंशति-अष्टाविंशत्युदयौ न सम्भवतः, तौ हि उत्पत्यनन्तरमन्तर्मुहूर्ते गते सति भवतः, सासादनभावश्चोत्पत्त्यनन्तरमुत्कर्षतः किश्चिदूनषडावलिकामानं कॉलं भवति, तत एतौ सासादनस्य ने प्राप्यते / एकोनत्रिंशदुदयो देव-नैरयिकाणां स्वस्थानगतानां पर्याप्तानां प्रथमसम्यक्त्वात् प्रच्यवमानानां प्राप्यते। तत्र देवस्यैकोनत्रिंशदुदये भगा अष्टौ, नैरयिकस्यैक इति, सर्वसङ्ख्यया नव / त्रिंशदुदयस्तिर्यग्-मनुष्याणां पर्याप्तानां प्रथमसम्यक्त्वात् प्रच्यवमानानां देवानां वा उत्तरवैक्रिये वर्तमानानां सासादनानाम् / तत्र तिरब्धां मनुष्याणां च त्रिंशदुदये प्रत्येकं द्विपञ्चाशदधिकान्येकादश शतानि 1152, देवस्याष्टौ, सर्वसरूपया त्रयोविंशतिशतानि द्वादशाधिकानि 2312 / एकत्रिंशदुदयस्तिर्यक्पञ्चेन्द्रियाणां पर्याप्तानां प्रथमसम्यक्त्वात् प्रच्यवमानानाम् / अत्र भङ्गा एकादश शतानि द्विपञ्चाशदधिकानि 1152 / उक्तरूपाया एव भजसमाया निरूपणार्थमियमन्तर्भाष्यगाथा बत्तीस दोन्नि अट्ठ य, बासीयसया य पंच नव उदया / बारहिगा तेवीसा, बावन्नेकारस सया य // 10 // सुगमा // सर्वभङ्गसध्या सप्तनवत्यधिकानि चत्वारिंशच्छतानि 4097 / सासादनस्य द्वे सत्तास्थाने, तद्यथा-द्विनवतिरष्टाशीतिश्च / तत्र द्विनवतिर्य आहारकचतुष्टयं बद्धवा उपशमश्रेणीतः प्रतिपतन् सासादनभावमुपगच्छति तस्य लभ्यते, न शेषस्य / अष्टाशीतिश्चतुर्गतिकानामपि सासादनानाम् / ___सम्प्रति संवेध उच्यते-तत्राष्टाविंशतिं बनतः सासादनस्य द्वे उदयस्थाने, तद्यथात्रिंशद् एकत्रिंशत् / अष्टाविंशतिर्हि सासादनस्य बन्धयोग्या भवति देवगतिविषया, न च कर 1 सं० 1 त० म० च सुभग-दुर्भगा-ऽऽदेयाना-ऽनादेय-यशः // 2 सं० 2 'त्रस्य, अत्राप्य° // 3 सं०सं०२ नश्वोत्प॥ 4 सं०सं० 2 लम्, ततः // 5 म० मदि० न सम्भवतः / एको / 6 अत्र 217 पृष्ठगता 9 संख्याका टिप्पणी द्रष्टव्या // 7 सं० 1 त० वतीति दे° //

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334