Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha
________________ __ 259 63] . चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / तेइय चउत्थे तम्मि व, भवम्मि सिझंति दसणे खीणे / जं देवनिरयऽसंखाउचरिमदेहेसु ते होंति // (गा० 779) एतानि च सप्त कर्माणि क्षपयति अविरतसम्यग्दृष्टिः देशविरतः प्रमत्तोऽप्रमत्तो वा, तत एतेषु चतुर्खपि सप्तकक्षयः प्राप्यते। तथा चाह सूत्रकृत्-"अविरय" इत्यादि / अविरते 'देशे' देशविरते प्रमत्तेऽप्रमत्ते च प्रथमकषायचतुष्कादीनि सप्त कर्माणि 'क्षीयन्ते' क्षयमुपयान्ति / ___ यदि पुनरबद्धायुः क्षपकश्रेणिमारभते ततः सप्तके क्षीणे नियमादनुपरतपरिणाम एव चारित्रमोहनीयक्षपणाय यत्नमारभते / यत आह भाष्यकृत् इयरो अणुवरओ चिय, सयलं सढिं समाणेई // (विशेषा० गा० 1325) चारित्रमोहनीयं च क्षपयितुं यतमानो यथाप्रवृत्तादीनि त्रीणि करणानि करोति, तद्यथायथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं च / एषां च स्वरूपं पूर्ववदेवावगन्तव्यम् / नवरमिह यथाप्रवृत्तकरणमप्रमत्तगुणस्थानके द्रष्टव्यम्, अपूर्वकरणमपूर्वकरणगुणस्थानके, अनिवृत्तिकरणमवृत्तिबादरसम्परायगुणस्थानके / तत्रापूर्वकरणे स्थितिघातादिभिरप्रत्याख्यान-प्रत्याख्यानावरणकषायाष्टकं तथा क्षपयति स्म यथा अनिवृत्तिकरणाद्धायाः प्रथमसमये तत् पल्योपमासयेयभागमात्रस्थितिकं जातम् / अनिवृत्तिकरणाद्धायाश्च सङ्ख्येयेषु भागेषु गतेषु सत्सु स्त्यानर्द्धित्रिक-नरकगति-तिर्यग्गति-नरकानुपूर्वी-तिर्यगानुपूर्वी-एक-द्वि-त्रि-चतुरिन्द्रियजाति-स्थावरा-ऽऽतप-उद्योतसूक्ष्म-साधारणरूपाणां षोडशप्रकृतीनामुद्वलनासक्रमेणोद्वल्यमानानां पल्योपमासस्येयभागमात्रा स्थितिर्जाता / ततो बध्यमानासु प्रकृतिषु तानि षोडश कर्माणि गुणसङ्कमेण प्रतिसमयं प्रक्षिप्यमाणानि प्रक्षिप्यमाणानि निःशेषतः क्षीणानि भवन्ति / इहाप्रत्याख्यान-प्रत्याख्यानावरणकषायाष्टकं पूर्वमेव क्षपयितुमारब्धं परं तद् नाद्यापि क्षीणम् , केवलमपान्तराल एव पूर्वोक्तप्रकृतिषोडशकं क्षपितम् ततः पश्चात् तदपि कषायाष्टकमन्तर्मुहूर्तमात्रेण क्षपयति / तथा चाह अनियट्टिबायरे थीणगिद्धितिगनिरयतिरियनामाओ / संखेजइमे सेसे, तप्पाओगाओ खीयंति // एत्तो हणइ कसायट्ठगं पि अनिवृत्तिबादरे गुणस्थानके सङ्ख्येयतमे भागे शेषे स्त्यानर्द्धित्रिकं 'नरय-तिर्यङ्नामनी' निरयगति-तिर्यग्गतिनानी 'तत्प्रायोग्याश्च' निरयगति-तिर्यग्गतिप्रायोग्याश्च एकेन्द्रिय-द्वीन्द्रियत्रीन्द्रिय-चतुरिन्द्रियजाति-निरयानुपूर्वी-तिर्यगानुपूर्वी-स्थावरा-ऽऽतप-उद्योत-सूक्ष्म-साधारणरूपाः सर्वसापया षोडश प्रकृतयः क्षीयन्ते / ततः 'इतः' प्रकृतिषोडशकक्षयादनन्तरं निःशेषतः कषायाष्टकं हन्ति / .. 1 तृतीये चतुर्थे तस्मिन् वा भवे सिध्यन्ति दर्शने क्षीणे / यद् देव-निरयासजथायुःचरमदेहेषु ते भवन्ति // 2 छा० मुद्रि० यन्ति // 3 स० सं० 1 सं० 2 त० म० रई" ई॥ 4 इतरोऽनुपरत एव सकलां श्रेणिं समापयति // 5 सं० सं० 2 °द्धाप्रयं // 6 सं०१त. छा० म. 'डशक्षया /
Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334