Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

Previous | Next

Page 331
________________ 266 मलयगिरिमहर्षिविनिर्मितविवृत्युपेतं . [गाथाः मणुयगइसहगयाओ, भवखित्तविवागजीववाग त्ति। वेयणियन्नयरुचं, च चरिम भवियस्स खीयंति // 69 // मनुजगत्या सह गताः-स्थिता मनुजगतिसहगताः, मनुष्यगत्या सह यासामुदयस्ता मनुजगतिसहगता इत्यर्थः / किंविशिष्टास्ताः ? इत्याह- "भवखित्तविवागजीववाग" त्ति भवविपाकाः क्षेत्रविपाका जीवविपाकाश्च / तत्र भवविपाका मनुष्यायुः, क्षेत्रविपाका मनुष्यानुपूर्वी, शेषा नव जीवविपाकाः, तथाऽन्यतरद् वेदनीयम् उच्चैर्गोत्रं च, सर्वसङ्ख्यया त्रयोदश प्रकृतयः भविकस्य' भवसिद्धिकस्य चरमे समये क्षीयन्ते, न द्विचरमसमये / ततश्चरमसमये भवसिद्धिकस्योत्कृष्ट सत्कर्म त्रयोदश प्रकृतयो जघन्यतो द्वादश भवन्तीति / अन्ये पुनराहुः—मनुष्यानुपूर्व्या द्विचरमसमय एव व्यवच्छेदः, उदयाभावात् / उदयवतीनां हि स्तिबुकसङ्कमाभावात् स्वस्वरूपेण चरमसमये दलिक दृश्यत एवेति युक्तस्तासां चरमसमये सत्ताव्यवच्छेदः / आनुपूर्वीनामा तु चतुर्णामपि क्षेत्रविपाकितया भवापान्तरालगतावेवोदयः, तेन न भवस्थस्य तदुदयसम्भवः तदसम्भवाच्चायोग्यवस्थाद्विचरमसमय एव मनुष्यानुपूर्व्याः सत्ताव्यवच्छेद इति / एतदेव मतमधिकृत्य प्राग् द्विचरमसमये सप्तचत्वारिंशत्प्रकृतीनां सत्ताव्यवच्छेदो दर्शितः / चरमसमये तूंकपतो द्वादशानां जघन्यत एकादशानामिति / ततोऽनन्तरसमये कोशबन्धमोक्षलक्षणसहकारिसमु. स्थस्वभाबविशेषाद् एरण्डफलमिव भगवानपि कर्मसम्बन्धविमोक्षलक्षणसहकारिसमुत्थस्वभावविशेषाद् ऊर्ध्व लोकान्ते गच्छति / स चोर्ध्वं गच्छन् ऋजुश्रेण्या यावत्स्वाकाशप्रदेशेष्विहावगाढस्तावतः प्रदेशानूर्ध्वमप्यवगाहमानो विवक्षितसमयाच्चान्यत् समयान्तरमस्पृशन् गच्छति / उक्तं चावश्यकचूर्णी जत्तिए जीवोऽवगाढो तावइयाए ओगाहणाए उड्ढे उज्जुगं गच्छइ, न वंकं, बीयं च समयं न फुसइ // (प्रथ० भा० पत्र 583) इति // इत्थं चानेके भगवन्तः कर्मक्षयं कृत्वा तत्र गताः सन्तः सिद्धिसुखं शाश्वतं कालमनुभवन्तोऽवतिष्ठन्ते // 69 // तथा चाह अह सुइयसयलजगसिहरमरुयनिरुवमसहावसिद्धिसुहं / अनिहणमव्वाबाहं, तिरयणसारं अणुहवंति // 7 // 'अथ' इत्यानन्तर्ये, कर्मक्षयादनन्तरं 'शुचिकं' एकान्तशुद्धम् , न रागादिदोषव्यामिश्रम् / तथा 'सकलं' संपूर्णम् , तथा 'जगच्छिखरं' सकलसांसारिकलोकसम्भविसुखनिकुरुम्बशेखर १म गजियविवागाओ // 2 सं० 1 0 2 त० म० °मभवसि // 3 सं०१ गृह्यत एवं // 4 सं० 1 त० म० °म्नां चतु // 5 सं० 1 त० म० तूत्कृष्टतो // 6 यावति जीवोऽवगाढः तावत्या अवगाहनया ऊर्ध्व ऋजुकं गच्छति, न वक्रम् , द्वितीयं च समयं न स्पृशति //

Loading...

Page Navigation
1 ... 329 330 331 332 333 334