Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

Previous | Next

Page 330
________________ 65-68] . चन्द्रर्षिमहत्तरकृतं सप्ततिकाप्रकरणम् / 265 देवगतिसहगता इत्यर्थः / कास्ताः ? इति चेद उच्यते-वैक्रिया-ऽऽहारकशरीरे वैक्रिया-हारकबन्धने वैक्रिया-ऽऽहारकसङ्घाते वैक्रिया-ऽऽहारकाङ्गोपाङ्गे देवानुपूर्वी च / एता देवगतिसहगताः 'द्विचरमसमयभवसिद्धिके' इति द्वौ चरमौ समयौ यस्य भवसिद्धिकस्य स द्विचरमसमयः, स चासौ भवसिद्धिकश्च तस्मिन् द्विचरमसमयभवसिद्धिके 'क्षीयन्ते' क्षयमुपगच्छन्ति / तथा 'तत्रैव' द्विचरमसमयभवसिद्धिके 'सविपाकेतरनामानि' विपाकः-उदयः, सह विपाकेन यानि वर्तन्ते तानि सविपाकानि, तेषामितराणि-प्रतिपक्षभूतानि यानि नामानि तानि सविपाकेतरनामानि, अनुदयवत्यो नामप्रकृतय इत्यर्थः / ताश्चेमाः-औदारिक-तैजस-कार्मणशरीराणि औदारिकतैजस-कार्मणबन्धन-सङ्घातानि संस्थानषटुं संहननषटूमौदारिकाङ्गोपाङ्ग वर्ण-रस-गन्ध-स्पर्शा मनुजानुपूर्वी पराघातमुपघातमगुरुलघु प्रशस्ता-प्रशस्तविहायोगती प्रत्येकमपर्याप्तकमुच्छासनाम स्थिरा-ऽस्थिरे शुभा-ऽशुभे सुस्वर-दुःस्वरे दुर्भगमनादेयम् यशःकीर्ति निर्माणमिति / तथा नीचैर्गोत्रम् , अपिशब्दादन्यतरदनुदितं वेदनीयम् / सर्वसङ्ख्यया सप्तचत्वारिंशत्प्रकृतयः क्षयमुपयान्ति // 65 // अन्नयरवेयणीयं, मणुयाउय उच्चगोय नव नामे। वेएइ अजोगिजिणो, उक्कोस जहन्न एकारं // 66 // 'अन्यतरद वेदनीयं' सातमसातं वा द्विचरमसमयक्षीणाद् इतरद् मनुष्यायुरुञ्चैर्गोत्रं 'नव नामानि' नव नामप्रकृतीः, सर्वसङ्ख्यया द्वादश प्रकृतीवेदयते 'अयोगिजिनः' अयोगिकेवली / जघन्येनैकादश, ताश्च ता एव द्वादश तीर्थकरवर्जा द्रष्टव्याः // 66 // 'नव नाम' इत्युक्तं ततस्ता एव नव नामप्रकृतीदर्शयति मणुयंगइ जाइ तस पायरं च पज्जत्तसुभगमाइज्लं / जसकित्ती तित्थयरं, नामस्स हवंति नव एया॥७॥ गतार्था // 67 // अत्रैव मतान्तरं दर्शयति तवाणुपुव्विसहिया, तेरस भवसिद्धियस्स चरिमम्मि / संतंसगमुकोसं, जहन्नयं बारस हवंति // 68 // तृतीयानुपूर्वी-मनुष्यानुपूर्वी तया सहितास्ता एव द्वादश प्रकृतयस्त्रयोदश सत्यः 'भवसिद्धिकस्य' तद्भवमोक्षगामिनः “संतंसग” ति सत्कर्म उत्कृष्टं भवति / जघन्यं पुनर्द्वादश प्रकृतयो भवन्ति / ताश्च द्वादश प्रकृतयस्ता एव त्रयोदश तीर्थकरनामरहिता वेदितव्याः // 68 // . अथ कस्मात्ते एवमिच्छन्ति ? इत्यत आह--- म० 'यणिजं // 2 सं०१ त० °याऊ उ° // 3 म० °हममिक्कारे // 4 सं०१त. 'म नामा ' इ° // 5 सं२ छा० °माएजं / 34 .

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334