Book Title: Pancham Shataknama evam Saptatikabhidhan Shashtha Karmgranth
Author(s): Chandraguptasuri
Publisher: Jain Atmanand Sabha

Previous | Next

Page 328
________________ 64] . चन्द्रषिमहत्तरकृतं सप्ततिकाप्रकरणम् / संज्वलनलोमे गुणसङ्कमेण सङ्गमयति / संज्वलनलोभस्यापि च बन्धादौ व्यवच्छिन्ने तं संज्वलनलोभं सूक्ष्ममपि, अपिशब्दात् शेषमपि 'हन्ति' स्थितिघातादिभिर्विनाशयति / लोभे च साकल्येन विनाशिते सति अनन्तरसमये क्षीणकषायो जायते / तस्य च क्षीणकषायस्य मोहनीयवर्जानां शेषकर्मणां स्थितिघातादयः पूर्ववत् प्रवर्तन्ते तावद् यावत् क्षीणकषायाद्धायाः संध्येया भागा गता भवन्ति, एकः सैझ्येयो भागोऽवतिष्ठते / तस्मिंश्च ज्ञानावरणपञ्चक-दर्शनावरणचतुष्टयाऽन्तरायपञ्चक-निद्राद्विकरूपाणां षोडशकर्मणां स्थितिसत्कर्म सर्वापवर्तनया अपवर्त्य क्षीणकषायाद्धासमं करोति, केवलं निद्राद्विकस्य स्वरूपापेक्षया समयन्यूनम् , कर्मत्वमात्रापेक्षया तु तुल्यम् / सा च क्षीणकषायाद्धा अद्याप्यन्तर्मुहूर्तप्रमाणा, ततः प्रभृति च तेषां स्थितिघातादयः स्थिताः, शेषाणां तु भवन्त्येव / तानि च षोडश कर्माणि निद्राद्विकहीनानि उदय-उदीरणाभ्यां वेदयमानस्तावद् गतो यावत् समयाधिकावलिकामानं शेषः / ततोऽनन्तरसमये उदीरणा निवृत्ता / तत आवलिकामानं कालं यावद् उदयेनैव केवलेन वेदयते यावत् क्षीणकषायाद्धाया द्विचरमसमयः / तस्मिंश्च द्विचरमसमये निद्राद्विकं स्वरूपसत्तापेक्षया क्षीणम् , चतुर्दशानां च शेषप्रकृतीनां चरमसमये क्षयः / तथा चाह सूत्रकृत् खीणकसायदुचरिमे, निद्दा पयला य हणइ छउमस्थो / आवरणमंतराँए, छउमत्थो चरिमसमयम्मि // व्याख्यातार्था / ततोऽनन्तरसमये सयोगिकेवली भवति / स च लोकमलोकं च सर्व सर्वात्मना परिपूर्ण पश्यति / न हि तदस्ति भूतं भवद् भविष्यद्वा यद् भगवान् न पश्यति / उक्तं च संमिन्नं पासंतो, लोगमलोगं च सबओ सधं / ...' तं नस्थि जं न पासइ, भूयं भवं भविस्सं च // (आव० नि० गा० 127) इत्थम्भूतश्च सयोगिकेवली जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो देशोनां पूर्वकोटी विहृत्य कश्चित् कर्मणां समीकरणार्थ समुद्धातं करोति, यस्य वेदनीयादिकमायुषः सकाशादधिकतरं भवति / अन्यस्तु न करोत्येव / तथा चोक्तं प्रज्ञापनायाम्सबे वि णं भंते ! केवली समुग्घायं गच्छंति ? गोयमा ! नो इणढे समढे / जस्साउएण तुल्लाई, बंधणेहिं ठिईहि य / भवोवग्गहकम्माई, न समुग्घायं स गच्छइ // 1 सं०१सं 2 त०म० संख्येयभा० // 2 सं०१ त०म० संख्येयभा° // 3 सं० सं०१ राये छ° // 4 संभिन्नं पश्यन् लोकमलोकं च सर्वतः सर्वम् / तद् नास्ति यद् न पश्यति भूतं भव्य भविष्यच्च // 5 सर्वेऽपि भदन्त ! केवलिनः समुद्धातं गच्छन्ति ? गौतम | नायमर्थः समर्थः / यस्याऽऽयुषा तुल्यानि बन्धनैः स्थितिभिश्च / भवोपप्राहिकर्माणि न समुद्धातं स गच्छति // अगत्वा समुद्धातमनन्ताः केवलिनो जिनाः। जरामरणविप्रमुक्काः सिद्धिं वरगतिं गताः //

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334